होमगार्डनियुक्तिपरीक्षा: देवरिया जिल्लायाः 10 केंद्रेषु 25,344 अभ्यर्थिनःपरीक्षायां सम्मेलिष्यन्ते
देवरिया, 25 अप्रैलमासः (हि.स.)। उत्तरप्रदेश होमगार्ड्सनियुक्तिपरीक्षायै लिखितपरीक्षा अद्य आरब्धा अस्ति। एषा परीक्षा २५, २६ तथा २७ एप्रिलदिनेषु जनपदस्य १० केन्द्रेषु आयोज्यते, यस्मिन् कुलं २५३४४ अभ्यर्थिनः सहभागी भविष्यन्ति। जिलाप्रशासनेन परीक्षा
फोटो परीक्षा केन्द्र पर परिक्षाथी


फोटो


देवरिया, 25 अप्रैलमासः (हि.स.)।

उत्तरप्रदेश होमगार्ड्सनियुक्तिपरीक्षायै लिखितपरीक्षा अद्य आरब्धा अस्ति। एषा परीक्षा २५, २६ तथा २७ एप्रिलदिनेषु जनपदस्य १० केन्द्रेषु आयोज्यते, यस्मिन् कुलं २५३४४ अभ्यर्थिनः सहभागी भविष्यन्ति।

जिलाप्रशासनेन परीक्षां नकलविहीनां पारदर्शिनीं शान्तिपूर्णां च कर्तुं व्यापकव्यवस्थाः कृताः। सर्वेषु परीक्षाकेन्द्रेषु सीसीटीवीचित्रग्राहका निरन्तरं निगराणी क्रियते। सुरक्षाव्यवस्थायै ४०९ पुलिसकर्मिणः नियुक्ताः सन्ति।

परीक्षा त्रिषु दिनेषु द्विपालिभ्यां भविष्यति। प्रथमा पाली प्रातः १० वादनात् मध्यान्ह १२ वादनपर्यन्तं, द्वितीया पाली अपराह्णे ३ वादनात् सायं ५ वादनपर्यन्तं आयोजिता भविष्यति। प्रत्येकपाल्याः कालावधिः १२० निमेषाः निर्धारिताः, तथा प्रत्येकपाल्यां ४२२४ परीक्षार्थिनः सहभागी भवन्ति।

परीक्षासञ्चालनार्थं प्रशासनं १० सेक्टरमजिस्ट्रेट्, १० स्टैटिकमजिस्ट्रेट्, १० केन्द्रव्यवस्थापकाः, १० सहकेन्द्रव्यवस्थापकाः तथा १० बाह्यपरीक्षासहायकाः नियुक्तवान्। पारदर्शितां रक्षितुं ५० प्रतिशतं बाह्यकक्षनिरीक्षकाः अपि नियुक्ताः। परिषदीयविद्यालयानां शिक्षकाः कक्षनिरीक्षकत्वेन नियोजिताः, ये पूर्वमेव प्रशिक्षिताः सन्ति।

जनपदे निर्मितेषु प्रमुखेषु परीक्षाकेन्द्रेषु अशोकइण्टरकॉलेजडुमरी (रामपुरकारखाना), बाबाराघवदासइण्टरकॉलेज, दीनानाथपाण्डेराजकीयमहिलापीजीकॉलेज, राजकीयइण्टरकॉलेज, राजकीयपॉलिटेक्निक, जनताइण्टरकॉलेज, महाराजाअग्रसेनइण्टरकॉलेज, लालकरमचन्दथापरइण्टरकॉलेज, महाराजाअग्रसेनबालिकाइण्टरकॉलेज तथा एसएसबीइण्टरकॉलेज समाविष्टानि सन्ति।

जिलाप्रशासनेन सर्वेभ्यः सम्बद्धाधिकारिभ्यः निर्देशाः दत्ताः यत् परीक्षा पूर्णनिष्पक्षतया कडकतया च आयोज्या, येन कस्यापि प्रकारस्य अनियमिततायाः काचिदपि सम्भावना न भवेत्।

----------

हिन्दुस्थान समाचार