उत्तरप्रदेश- होमगार्ड्स परीक्षा: जौनपुरे 19 केंद्रेषु 50 सहस्रम् अभ्यर्थिनस्सम्मिलिताः शामिल
जौनपुरम्, 25 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुर जनपदे उत्तरप्रदेश होमगार्ड्स पदानां पञ्जीकरण२०२५ लिखितपरीक्षा शनिवासरात् आरब्धा। १९ परीक्षाकेन्द्रेषु कडकसुरक्षाव्यवस्थायाः मध्ये कुलं ५०४०० अभ्यर्थिनः परीक्षायां भागं गृह्णन्ति। एषा परीक्षा २७
टीडी कॉलेज पर परीक्षा देने पहुंचे परीक्षार्थी चेकिंग करते हुए शिक्षक


होमगार्ड भर्ती परीक्षा के दौरान चेकिंग करते हुए पुलिस कर्मी


होमगार्ड भर्ती परीक्षा में शामिल होने वाला परीक्षार्थी केंद्र के बाहर लाइन में खड़े


होमगार्ड भर्ती परीक्षा को लेकर जिला प्रशासन अलर्ट केंद्रों पर तैनात पुलिस बल


जौनपुरम्, 25 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुर जनपदे उत्तरप्रदेश होमगार्ड्स पदानां पञ्जीकरण२०२५ लिखितपरीक्षा शनिवासरात् आरब्धा। १९ परीक्षाकेन्द्रेषु कडकसुरक्षाव्यवस्थायाः मध्ये कुलं ५०४०० अभ्यर्थिनः परीक्षायां भागं गृह्णन्ति। एषा परीक्षा २७ एप्रिलपर्यन्तं सञ्चाल्यते, यस्याः नकलविहीनं आयोजनं सुनिश्चितुं प्रशासनस्य व्यापकव्यवस्थाः कृताः।

परीक्षा द्विपालिभ्याम् आयोजिता अस्ति। प्रथमा पाली प्रातः १० वादनात् मध्यान्ह १२ वादनपर्यन्तं, द्वितीया पाली अपराह्णे ३ वादनात् सायं ५ वादनपर्यन्तं सञ्चरति। प्रत्येकपाल्यां प्रायः ८४०० अभ्यर्थिनः परीक्षां ददति।

अस्मिन् विषये अपरपुलिसअधीक्षकः (नगर) आयुषश्रीवास्तवः उक्तवान् यत् सर्वेषु केन्द्रेषु पर्याप्तं पुलिसबलं नियुक्तम् अस्ति। अभ्यर्थिभ्यः बायोमेट्रिकसत्यापनं तथा सूक्ष्मतलाशीकरणं कृत्वा एव प्रवेशः दीयते। अपि च सर्वे परीक्षाकेन्द्राः सीसीटीवीकैमैरनिगराण्यां स्थिताः सन्ति।

नकलनिवारणार्थं प्रत्येकस्मिन्केन्द्रे सेक्टरमजिस्ट्रेट्, स्टैटिकमजिस्ट्रेट्, जोनलमजिस्ट्रेट्, केन्द्रव्यवस्थापकाः तथा बाह्यपरीक्षासहायकाः नियुक्ताः। आपत्कालीनस्थितेः निवारणार्थं जनपदस्तरे अपि अधिकारीणः सज्जीकृताः सन्ति।

जिलाधिकारी डॉ दिनेशचन्द्रः उष्णतां दृष्ट्वा परीक्षार्थिनां सुविधायै विशेषनिर्देशान् दत्तवान्। सर्वेषु केन्द्रेषु शुद्धपेयजलस्य व्यवस्था सुनिश्चिता, येन दूरस्थानात् आगतानां अभ्यर्थिनां काचनापि असुविधा न भवेत्।

लू तथा तीव्रोष्णताभ्यः संरक्षणाय प्रत्येककेन्द्रे ओआरएस, इलेक्ट्रॉलचूर्णं तथा आवश्यकजीवनरक्षकऔषधानि उपलब्धानि कृतानि। स्वास्थ्यविभागः अपि सजगः कृतः, येन आवश्यकतायां शीघ्रं प्राथमिकचिकित्सा दातुं शक्यते। मानवीयदृष्ट्या प्रशासनं गुडं तथा कूष्माडम्इत्यादीनि शीतलोपकरणानि अपि अभ्यर्थिभ्यः प्रदत्तवान्, येन ते घोरोष्णतामध्ये आरामं प्राप्नुयुः।

हिन्दुस्थान समाचार