'“मेडिकल-परार्थवाद-विषये प्रदेशस्य प्रथमं अन्ताराष्ट्रिय-सम्मेलनं प्रारब्धम्, अङ्गदानद्वारा जीवन-रक्षणस्य संदेशः प्रदत्तः
लखीमपुर-खीरी-जनपदम्, २५ अप्रैलमासः (हि.स.)। स्वशासी-राज्य-चिकित्सा-महाविद्यालये देवकली-नगरे “मेडिकल-परार्थवाद” विषयकं द्विदिवसीयं अन्ताराष्ट्रिय-सम्मेलनं प्रारब्धम्। अस्मिन् अङ्गदानस्य महत्त्वं तथा जीवन-रक्षणस्य संदेशः प्रदत्तः। प्रधानाचार्या डॉ.
वक्ताओं को सम्मानित करती प्रधानाचार्य मेडिकल कॉलेज डॉ वाणी गुप्ता


प्रमुख वक्ताओं और सीएमएस के साथ प्रधानाचार्य डॉ वाणी गुप्ता


लखीमपुर-खीरी-जनपदम्, २५ अप्रैलमासः (हि.स.)। स्वशासी-राज्य-चिकित्सा-महाविद्यालये देवकली-नगरे “मेडिकल-परार्थवाद” विषयकं द्विदिवसीयं अन्ताराष्ट्रिय-सम्मेलनं प्रारब्धम्। अस्मिन् अङ्गदानस्य महत्त्वं तथा जीवन-रक्षणस्य संदेशः प्रदत्तः।

प्रधानाचार्या डॉ. वाणी-गुप्ता उक्तवती यत् एतत् उत्तरप्रदेशस्य प्रथमं एतादृशं सम्मेलनम् अस्ति। देशस्य विभिन्न-भागेभ्यः आगताः प्रतिभागिनः अङ्गदानस्य वैज्ञानिक-व्यावहारिक-पक्षान् अवगच्छन्ति।

यूनाइटेड-किङ्गडम-देशस्य कैम्ब्रिज-विश्वविद्यालय-चिकित्सालयात् आगतः डॉ.अभिषेक-रे आन्त्र-प्रत्यारोपणस्य जटिलताया: विषये विस्तरेण प्रकाशं कृतवान्। तेन उक्तं यत् सामाजिक-सहभागितया बहूनि जीवनानि रक्षितुं शक्यन्ते। तदनन्तरं एसजीपीजीआई-लखनऊ-चिकित्सालयस्य प्रोफेसरः डॉ.जिया-हाशिम ‘ब्रेन-डेड’ अवस्थां स्पष्टयन् उक्तवान् यत् वेंटिलेटर-सहाय्ये सति अपि विधिपूर्वकं एषा मृत्युरेव मन्यते।

एसजीपीजीआई-चिकित्सालयस्य प्रोफेसरः डॉ.राजेश-हर्षवर्धन: चिकित्साक्षेत्रे विधिक-अवधारणाः यथा शिथिलता, दायित्वं तथा रोगी-चिकित्सक-गोपनीयता इत्यादिषु मार्गदर्शनं दत्तवान्। वृक्क-प्रत्यारोपणस्य विषयं प्रति चरक-चिकित्सालयस्य डॉ.विष्णु-शंकर-शुक्लेन जीवित-दानकर्तुः उपलब्धता-चयन-विषये महत्त्वपूर्णाः बिन्दवः प्रतिपादिताः। मेदांता-लखनऊ-चिकित्सालयस्य डॉ.अंशुल-गुप्तेन अस्थिमज्जा-प्रत्यारोपणस्य विषये, डॉ.अरुणा-सिंहेन च परोपकारस्य न्यूरो-भौतिकी-विषये विचाराः प्रस्तुताः।

विशेषज्ञैः अङ्ग-प्रत्यारोपण, ‘ब्रेन-डेड’ अवस्था, तथा चिकित्सायाः विधिक-पक्षेषु अपि प्रकाशः कृतः। अयं कार्यक्रमः NOTTO तथा MCI संस्थाभ्यां प्रशंसितः।

हिन्दुस्थान समाचार / अंशु गुप्ता