Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 25 अप्रैलमासः (हि.स.) ।बिहारस्य पूर्वोपमुख्यमन्त्री विजय कुमार सिन्हा शनिवासरे प्रातःकाले उज्जैन स्थितं श्री महाकालेश्वर मंदिर आगच्छत्। तत्र सः स्वपत्नीसमेतः भस्मआरत्यां सहभागी अभवत्, भगवान् महाकालस्य दर्शनं कृत्वा आशीर्वादं च प्राप्तवान्।
प्राप्तसूचनानुसारं सः प्रातःकालस्य प्रायः चतुर्थे प्रहरे मन्दिरपरिसरम् आगतः। ततः सः नन्दीमण्डपे उपविश्य भस्मआरतेः दर्शनं कृतवान्, धार्मिकानुष्ठाने च पूर्णया श्रद्धया सहभागी अभवत्। आरत्याः समाप्तेः अनन्तरं सः नन्दीदेवस्य पूजनाभिषेकं कृतवान्, परम्परानुसारं तस्य कर्णे स्वमनोकामनां अपि उक्तवान्।
दर्शनसमये विजय कुमार सिन्हा रजतद्वारतः भगवतः महाकालाय जलम् अर्पितवान्। मन्दिरस्य पूजारिणः विधिविधानपूर्वकं तस्य पूजनाभिषेकं सम्पन्नवन्तः।
दर्शनानन्तरं सः उक्तवान् यत् उज्जयिन्याः पवित्रभूमौ भगवान् महाकालस्य मंडपम् आगत्य तेन अत्यन्तं सकारात्मक-ऊर्जायाः अनुभवः कृतः। सः प्रार्थितवान् यत् सर्वे जनाः स्वस्थाः स्युः, भगवान् महाकालस्य कृपा च सदा तेषां उपरि भवेत्। अपि च सः उक्तवान् यत् प्रत्येकं बिहारी स्वगौरवं धारयेत्, राज्यं च निरन्तरं प्रगतिं कुर्यात्।
हिन्दुस्थान समाचार