Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 25 अप्रैलमासः (हि.स.)।
गुरुकुल कांगड़ी समविश्वविद्यालयस्य अभियांत्रिकी-प्रौद्योगिकी-संकायस्य छात्राः इंडिया डिजाइन वीक 2026 इत्यस्य अंतिम-चरणे उत्कृष्टं प्रदर्शनं कृत्वा शीर्ष-दशके स्वस्थानं प्राप्तवन्तः। एषा द्विदिवसीया प्रतियोगिता ग्रेटर-नोएडा-नगरे आयोजिता आसीत्।
अस्यां प्रतिष्ठित-प्रतियोगितायां उत्तर-भारतस्य सप्त-राज्येभ्यः शतं दलानि सहभागीभूतानि, येषु विविध-विश्वविद्यालयानां महाविद्यालयानां च प्रतिभागिनः आसन्। गुरुकुल-कांगड़ी-विश्वविद्यालयस्य त्रयः दलाः अपि प्रतियोगितायां सहभागीभूत्वा स्वस्य तकनीकी-कौशलस्य प्रभावशालीं प्रस्तुति कृतवन्तः।
प्रतियोगिताकाले प्रतिभागिभ्यः चतुर्विंशतिघण्टाभ्यन्तरे अल्प-व्ययेन वहनीयां सुगम-उपयोगिनीं जानु-पुनर्वास-यन्त्रस्य निर्माणस्य समाहुतिः दत्ता आसीत्। कठिन-स्पर्धायाः अनन्तरं शीर्ष-दश दलानां चयनं कृतम्, यस्मिन् गुरुकुल-दलस्य छात्रौ हर्ष-चौरसिया तथा कार्तिक स्थानं प्राप्तवन्तौ।
दलस्य मार्गदर्शकः यांत्रिकी-विभागस्य डॉ. मयंक पोखरियाल महोदयः अवदत् यत् एषः “इंडिया डिजाइन वीक” इत्यस्य नवमः संस्करणः आसीत् तथा उत्तर-भारते प्रथमवारं अस्य आयोजनं जातम्। अभियांत्रिकी-प्रौद्योगिकी-संकायस्य अधिष्ठाता प्रो. मयंक अग्रवाल महोदयः छात्रान् अभिनन्द्य उक्तवान् यत् विकसित-भारतस्य निर्माणे डिजाइन तथा नवाचारस्य भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। एतादृशाः प्रतियोगिताः छात्रेषु सृजनशीलता, तकनीकी-कौशलं तथा व्यावहारिक-चिन्तनं विकासयन्ति इति अपि सः उक्तवान्।
यांत्रिकी-विभागस्य प्रभारी डॉ. संजीव लांबा महोदयः अपि अस्य उपलब्धेः प्रेरणादायिनीं संज्ञां दत्त्वा छात्राणां उज्ज्वल-भविष्यस्य कामनां कृतवान्। विश्वविद्यालयस्य कुलपतिः प्रो. प्रतिभा मेहता लूथरा, कुलसचिवः प्रो. सत्यदेव निगमालंकार तथा वित्त-अधिकारी प्रो. वी.के. सिंह सर्वान् प्रतिभागिनः शुभकामनाः प्रदत्तवन्तः।
हिन्दुस्थान समाचार