Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 25 अप्रैलमासः (हि.स.)।
गुरूकुल कांगड़ी विश्वविद्यालयस्य शारीरिक-शिक्षा-क्रीडा-विभागस्य तत्वावधाने आयोजितस्य त्रिदिवसीय-नेतृत्व-शैक्षिक-भ्रमण-शिविरस्य द्वितीय-दिनस्य कार्यक्रमाः वैदिक गुरूकुल कण्डवाश्रम इत्यत्र प्रातःकाले योगाभ्यासेन बौद्धिक-सत्रेण च आरब्धाः।
मुख्यातिथिरूपेण उपस्थितः भारत इलेक्ट्रॉनिक्स लिमिटेड कोटद्वार-शाखायाः महाप्रबन्धकः अमरीश त्रिपाठी महोदयः अवदत् यत् नेतृत्वं व्यक्तित्वस्य अभिन्नः अङ्गः अस्ति, किन्तु अल्पाः जनाः एव तत् स्वलक्ष्ये तथा करियर-पथे प्रभावकारितया अनुप्रयुञ्जते। तेन समय-प्रबन्धनम्, निरन्तरता, सरल-व्यक्तित्वम्, आत्म-चिन्तनम् तथा आध्यात्मिक-सकारात्मकता इत्येतानि नेतृत्वस्य प्रमुख-स्तम्भाः इति निर्दिष्टानि।
संस्थायाः सचिवः डॉ. धर्मेन्द्र कुमार तथा शिविर-संयोजकः डॉ. शिवकुमार चौहानः अवदताम् यत् नैतिकता, अध्यात्म तथा स्व-मूल्यांकनस्य सह अर्जिता उन्नतिः दीर्घकालपर्यन्तं व्यक्तेः समाजस्य च उपरि प्रभावं जनयति। प्रतिभागिनः ट्रैकिंग् तथा हाइकिंग् क्रियाभ्यां सह ऐतिहासिक-स्थलानां भ्रमणं अपि कृतवन्तः।
कार्यक्रमे डॉ. कपिल मिश्रो, डॉ. प्रणवीर सिंह, सुनील कुमार, कुलदीप चन्द रतूड़ी, सुधीर कुमारः तथा कुलदीप कुमारः इत्येते व्यवस्थासु महत्त्वपूर्णं योगदानं कृतवन्तः।
हिन्दुस्थान समाचार