Enter your Email Address to subscribe to our newsletters

हुगली-नगरम्, २५ अप्रैलमासः (हि.स.)। हुगली-जनपदस्य गोघाटे निर्वाचन-परिसरे राजनैतिक-परिस्थितेः मध्ये भारतीय-जनता-पक्षेण (भाजपया) शक्तिप्रदर्शनं कृत्वा सशक्तं प्रचार-अभियानं सञ्चालितम्। शनिवासरे पक्षस्य प्रत्याशिनः समर्थनाय गोघाटस्य बेतरा-प्रदेशे वरिष्ठ-भाजप-नेता रक्षामन्त्री च राजनाथसिंहः शोभायात्रां कृतवान्।
सूचनानुसारं सः हेलीकॉप्टर-द्वारा बेतरा-प्रदेशं प्राप्तवान्, ततः उद्घटित-वाहने आरूढः सन् बदनगञ्ज-बस-स्थानकपर्यन्तं शोभायात्रां कृतवान्। अस्मिन् समये मार्गयोः उभयपार्श्वयोः बहुसंख्यकाः कार्यकर्तारः समर्थकाः च उपस्थिता आसन्। समग्रे क्षेत्रे भाजप-पताकाः, विज्ञापनानि, घोषणाः च वातावरणं मुखरयन्ति स्म।
शोभायात्राया: अनन्तरं सभां सम्बोधयन् सः उक्तवान् यत् ४ मे-दिनानन्तरं पश्चिमबङ्ग-राज्ये भाजप-सर्वकारः भविष्यति। सः अपि उक्तवान् यत् राज्ये गुंडाराजस्य भ्रष्टाचारस्य च अन्तः भविष्यति। तस्य अस्य वक्तव्यस्य अनन्तरं राजनैतिक-परिस्थितिः अधिका उष्णा जाता। अस्य कार्यक्रमस्य विषये क्षेत्रे कठोर-निरापत्ता-व्यवस्था अपि कृता आसीत्।
हिन्दुस्थान समाचार / अंशु गुप्ता