महिला सशक्तिकरणे लोकतंत्रे च भूमिकां प्रति ओडिशा विधानसभायाः विशेषं सत्रम् 30 अप्रैल दिनांके
भुवनेश्वरम्, 25 अप्रैलमासः (हि.स.)।ओडिशाविधानसभायां त्रिंशत्तमे एप्रिलमासस्य दिने एकदिवसीयं विशेषसत्रं आयोज्यते, यस्मिन् भारतीयलोकतन्त्रे महिलानां सहभागिता तासां भूमिकायाश्च विषये चर्चा भविष्यति। अस्य विषये विधानसभासचिवालयेन आधिकारिकाधिसूचना निर्गत
ओडिशा विधानसभा


भुवनेश्वरम्, 25 अप्रैलमासः (हि.स.)।ओडिशाविधानसभायां त्रिंशत्तमे एप्रिलमासस्य दिने एकदिवसीयं विशेषसत्रं आयोज्यते, यस्मिन् भारतीयलोकतन्त्रे महिलानां सहभागिता तासां भूमिकायाश्च विषये चर्चा भविष्यति। अस्य विषये विधानसभासचिवालयेन आधिकारिकाधिसूचना निर्गता अस्ति।

अधिसूचनानुसारं सर्वे विधायकाः सत्रकाले उपस्थिताः भवितुम् अनुरोधिताः सन्ति। एतत् विशेषसत्रं पूर्णतया लोकतान्त्रिकव्यवस्थायां महिलानां योगदानस्य तासां सहभागितायाश्च केन्द्रितं भविष्यति।

सत्रे शासनव्यवस्थायां विधायिकासंस्थासु च महिलानां सहभागितां वर्धयितुं उपायानां विषये अपि विचारविमर्शः भवितुम् अपेक्षितः अस्ति।

---------------

हिन्दुस्थान समाचार