बिहू समितयो रात्रौ 12 वादनतः प्राक् कार्यक्रमं समाप्तुम् आह्वानम्
गुवाहाटी, 26 अप्रैलमासः (हि.स.)। निशामणि हालोई नाम्नः व्यक्तेः दुःखददुर्घटनायाः अनन्तरं बिहूसुरक्षासमितिः राज्यव्याप्तानां सर्वासां बिहूसमितीनां प्रति स्वानि सांस्कृतिककार्यक्रमाणि रात्रेः द्वादशवादनात् पूर्वमेव समाप्तुं आह्वानं कृतवती। समित्या
Bihu Dance बिहू नृत्य


गुवाहाटी, 26 अप्रैलमासः (हि.स.)।

निशामणि हालोई नाम्नः व्यक्तेः दुःखददुर्घटनायाः अनन्तरं बिहूसुरक्षासमितिः राज्यव्याप्तानां सर्वासां बिहूसमितीनां प्रति स्वानि सांस्कृतिककार्यक्रमाणि रात्रेः द्वादशवादनात् पूर्वमेव समाप्तुं आह्वानं कृतवती।

समित्या उक्तं यत् यानि कार्यक्रमाणि अतिदेररात्रौ पर्यन्तं प्रवर्तन्ते, तेषां अनन्तरं दुर्घटनानां सम्भावना वर्धते। अतः आयोजकैः अधिकसतर्कतया उत्तरदायित्वेन च कार्यक्रमाः आयोजनीयाः इति।

घटनां दृष्ट्वा समित्या सर्वेभ्यः बिहूकार्यक्रमआयोजकेभ्यः अपीलं कृतं यत् ते सुरक्षामानदण्डान् अनुसृत्य समयसीमायाः कठोरतया पालनं कुर्वन्तु। सहैव बिहूसुरक्षासमितिः प्रशासनं प्रति अपि आवश्यकान् दिशानिर्देशान् प्रवर्तयितुं तथा एतादृशानां दुर्घटनानां पुनरावृत्तिं निवारयितुं कठोरान् उपायान् स्वीकर्तुं निवेदनं कृतवती।

हिन्दुस्थान समाचार