Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, २६ अप्रैलमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्रिणा डॉ.मोहन-यादवेन अद्य रविवासरे महत: भारतीय-गणितज्ञस्य श्रीनिवास-अयङ्गर-रामानुजनस्य पुण्यतिथौ तस्मै नत्वा श्रद्धाञ्जलिः अर्पिता। मुख्यमन्त्रिणा उक्तं यत् तेन गणित-क्षेत्रे दत्तानि ३५०० अधिकानि नूतन-सूत्राणि तथा सिद्धान्ताः विद्यार्थिनां कृते प्रेरणास्रोतांसि भवन्ति।
मुख्यमन्त्रिणा डॉ.यादवेन सामाजिक-माध्यमे ‘एक्स’ इत्यस्मिन् लिखितं यत्— “महत: गणितज्ञस्य श्रीनिवास-अयङ्गर-रामानुजनस्य पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं अर्पयामि। गणित-क्षेत्रे ३५०० अधिकानि नूतन-सूत्राणि तथा सिद्धान्तान् दत्त्वा तेन कृतं योगदानं सदैव प्रतिभावन्तं विद्यार्थिनं संशोधनाय प्रेरयिष्यति।
महत: भारतीय-गणितज्ञस्य श्रीनिवास-अयङ्गर-रामानुजनस्य पुण्यतिथिः २६ अप्रैल १९२० आसीत्। सः केवलं द्वात्रिंशद्वर्षीय-लघ्वायुना २६ अप्रैल १९२० दिने मद्रास-नगरे स्वान्तिम-श्वासं त्यक्तवान्। संख्या-सिद्धान्ते, अनन्त-श्रृङ्खलासु तथा गणितीय-विश्लेषणे तस्य अतुलनीय-योगदानाय सः सर्वदा स्मर्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता