15 वर्षीयस्य वैभव सूर्यवंशिनः सोत्साहं निर्मितशतकं व्यर्थं, सनराइजर्स हैदराबादं राजस्थान रॉयल्सदलं 5 विकेटद्वारा पराजयत्
जयपुरम्, 25 अप्रैलमासः (हि.स.)। इंडियन प्रीमियर लीग २०२६ इत्यस्य ३६तम-स्पर्धायां पञ्चदशवर्षीयेन वैभव सूर्यवंशी कृतस्य ऐतिहासिक-शतकस्य अपि अनन्तरं राजस्थान रॉयल्स दलं पराजयं प्राप्तम्। सनराइजर्स हैदराबाद जयपुर-स्थिते सवाई मानसिंग स्टेडियम इत्यत्र
15 साल के वैभव सूर्यवंशी का धमाकेदार शतक बेकार, सनराइजर्स हैदराबाद ने राजस्थान रॉयल्स को 5 विकेट से हराया


जयपुरम्, 25 अप्रैलमासः (हि.स.)।

इंडियन प्रीमियर लीग २०२६ इत्यस्य ३६तम-स्पर्धायां पञ्चदशवर्षीयेन वैभव सूर्यवंशी कृतस्य ऐतिहासिक-शतकस्य अपि अनन्तरं राजस्थान रॉयल्स दलं पराजयं प्राप्तम्। सनराइजर्स हैदराबाद जयपुर-स्थिते सवाई मानसिंग स्टेडियम इत्यत्र क्रीडिते उच्चांकैः युक्ते मुकाबले पञ्च-विकेटैः विजयम् अलभत।

प्रथमं बल्लेबाजीं कृत्वा राजस्थान रॉयल्स दलं २० ओवरेषु ६ विकेट्-हान्या २२८ रनान् अकुरुत। तत्र वैभव सूर्यवंशी केवलं ३७ कन्दुकैः १०३ रनान् कृत्वा त्वरित-शतकम् अकरोत्, ३६ कन्दुकैः एव स्वस्य द्वितीयम् आईपीएल-शतकम् अपि सम्पन्नवान्। तेन स्वस्य पार्यायां १२ षट्कानि ५ चतुष्काणि च कृतानि। ध्रुव जुरेल ५१ अंकान्, डोनोवन फरेरा च १६ कन्दुकैः ३३ रनान् योगदानम् अदत्ताम्।

२२९ रनानां लक्ष्यं अनुधावन्ती सनराइजर्स हैदराबाद १८.३ ओवरेषु ५ विकेट्-हान्या विजयम् प्राप्तवती। तत्र ईशान किशन ७४ रनान्, अभिषेक शर्मा च ५७ रनान् तीव्रगत्या कृतवन्तौ। अन्येभ्यः नीतीश कुमार रेड्डी ३६ रनान्, हेनरिक क्लासन च २९ रनान् महत्त्वपूर्णं योगदानम् अदत्ताम्।

राजस्थान रॉयल्स पक्षतः जोफ्रा आर्चर तथा ब्रजेश शर्मा द्वौ-द्वौ विकेटौ अलभेताम्, सनराइजर्स हैदराबाद पक्षतः ईशान मलिंगा द्वौ विकेटौ प्राप्तवान्।

अनेन विजयेन् सनराइजर्स हैदराबाद अङ्कतालिकायां तृतीयस्थानं प्राप्तवती, राजस्थान रॉयल्स तु न्यून-नेट्-रन्-रेट्-कारणेन चतुर्थस्थानं प्रति अवतीर्णा। उभयोः दलयोः दश-दश अङ्काः सन्ति, किन्तु हैदराबाद् दलं अग्रे अस्ति।

----------------------

हिन्दुस्थान समाचार