मध्यप्रदेशे अद्य कठोर-सुरक्षा-व्यवस्थायाः मध्ये राज्य-सेवा तथा राज्य-वन-सेवा-प्रारम्भिक-परीक्षायाः आयोजनम्
भोपाल-नगरम्, २६ अप्रैलमासः (हि.स.)। मध्यप्रदेश-लोक-सेवा-आयोगेन, इन्दौर-स्थितेन, राज्य-सेवा तथा राज्य-वन-सेवा-प्रारम्भिक-परीक्षा-२०२६ अद्य रविवासरे कठोर-सुरक्षा-व्यवस्थायाः मध्ये आयोज्यते। राज्यस्य चतुःपञ्चाशत् (५४) जनपद-मुख्यालयेषु त्रिशत्-पञ्चषष्ट
मध्य प्रदेश लोक सेवा आयोग


भोपाल-नगरम्, २६ अप्रैलमासः (हि.स.)। मध्यप्रदेश-लोक-सेवा-आयोगेन, इन्दौर-स्थितेन, राज्य-सेवा तथा राज्य-वन-सेवा-प्रारम्भिक-परीक्षा-२०२६ अद्य रविवासरे कठोर-सुरक्षा-व्यवस्थायाः मध्ये आयोज्यते। राज्यस्य चतुःपञ्चाशत् (५४) जनपद-मुख्यालयेषु त्रिशत्-पञ्चषष्टि: (३६५) परीक्षा-केन्द्रेषु एषा परीक्षा प्रातः १० वादनतः १२ वादनपर्यन्तं तथा अपराह्णे २:१५ वादनतः ४:१५ वादनपर्यन्तं द्वयोः सत्रयोः सञ्चाल्यते।

आयोगेन परीक्षासम्बन्धे नूतना प्रक्रिया अपनिता, यस्य अन्तर्गतं प्रत्येकस्मिन् परीक्षा-केन्द्रे प्रवेश-समये बायोमेट्रिक-प्रमाणीकरणम्, प्रवेश-पत्रस्य स्कैनिङ्, हस्तधारित-धातु-अन्वेषक-यन्त्रेण (HHMD) परीक्षणं च आरब्धम्। अस्यां प्रक्रियायां सर्वेषु परीक्षा-केन्द्रेषु परीक्षार्थिनः परीक्षा-समयात् नवतिः-निमेष-पूर्वं आगन्तव्यम्। परीक्षा-केन्द्रेषु त्रिस्तरीया परीक्षा (जाँच) क्रियते। प्रवेश-द्वारस्य समीपे अनुमत-तथा-वर्जित-वस्तूनां सूची स्थापिता भविष्यति, यस्य पालनम् अनिवार्यम्।

परीक्षायाः नोडल-अधिकारी विनोद-सिंहेन उक्तं यत् परीक्षार्थिभ्यः परीक्षा-आरम्भात् अर्ध-होराधिक-पूर्वं (१.५ घण्टा) केन्द्रे आगमनम् आवश्यकम्। सः अपि अवदत् यत् प्रातः ९:४५ वादनात् परं कस्यापि परीक्षार्थिनः प्रवेशः न भविष्यति।

उभयोः सत्रयोः परीक्षार्थिनां परीक्षणं HHMD-यन्त्रेण (फ्रिस्किङ्) क्रियते। महिला-परीक्षार्थिनां परीक्षणं महिला-निरीक्षकाभि: कक्षे (केबिन) क्रियते। तृतीय-लिङ्ग-अभ्यर्थिभ्यः स्वेच्छया महिला-वा पुरुष-कर्मचारिणं परीक्षकं निर्वाचयितुं विकल्पः अस्ति। परीक्षार्थिनः स्वसमीपे केवलं बॉलकलमम्, पारदर्शी-जल-पात्रम्, ई-प्रवेश-पत्रम् तथा परिचय-पत्रम् एव आनयितुं शक्नुवन्ति।

नोडल-अधिकारिणा विनोद-सिंहेन उक्तं यत् परीक्षा-कक्षे अंकनी, रबर (इरेज़र्), श्वेतकमृ (व्हाइटनर्), मापन-दण्डः (स्केल्), पुटकानि (बैग्) तथा पठन-सामग्री न अनुमता। तथैव दूरभाष-यन्त्रं (मोबाइल्), पेनड्राइव्, गणक-यन्त्रं (कैल्कुलेटर्), ब्लूटूथ्, हैंडफ्री, डिजिटल-घटिका, स्मार्ट-घटिका, सामान्य-घटिका तथा अन्ये सञ्चार-उपकरणरूपेण प्रयोज्य-यन्त्राणि अपि निषिद्धानि सन्ति। केश-बन्धन-यन्त्राणि (क्लचर्), बक्कल्, हस्त-बन्धाः, धातु-बन्धाः, चर्म-बन्धाः, कटि-बन्धः (बेल्ट्), कफलिङ्क्, सूर्य-चश्मा, धनपुटकं (पर्स्), वॉलेट्, टोपी च अपि निषिद्धानि सन्ति। अन्ये च चाभिः, दीपक-प्रज्वालकाः (लाइटर्), शार्पनर्, क्षुरिका (ब्लेड्) तथा मूल्यवानि वस्तूनि अपि वर्जितानि सन्ति। जूता-मोजकयोः धारणेन परीक्षा-कक्षे प्रवेशः निषिद्धः।

परीक्षार्थिनः पादुकया सैण्डल्-पादुकाभ्यां वा प्रवेशं कर्तुं शक्नुवन्ति। हिजाब्, पगड़ी, पल्लवः, हस्ते बद्धाः सूत्राणि (कलावा), ताबीज् तथा अन्याः धार्मिक-वस्तूनि सम्मानपूर्वक सूक्ष्मतया परीक्ष्यन्ते। महिला-परीक्षार्थिनां परीक्षणं पूर्ण-गरिमया महिला-शासकीय-सेवकाभिः क्रियते। धार्मिक-सूत्राणि तथा महिला-आभरणानि न अपसार्यन्ते। महिला-परीक्षार्थिनां दुपट्टा-चुन्नी इत्यादय: सम्यक् परीक्षणानन्तरं शीघ्रं प्रत्यर्प्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता