Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 26 अप्रैलमासः(हि.स.)l
केन्द्रीय-युवकार्यमन्त्रालयस्य क्रीडामन्त्रिणः मनसुख मंडाविया रविवासरे उक्तवान् यत् यदि भारतं विकसितराष्ट्रं कर्तुम् इच्छामः, तर्हि देशस्य नागरिकाः शारीरिकरूपेण स्वस्थाः भवितुम् आवश्यकम्।
युवकार्यमन्त्रालयस्य क्रीडामन्त्रालयस्य च पक्षतः आयोजितस्य त्रिदिवसीय-चिन्तन-शिविरस्य कृते अत्र आगतः मनसुख मंडाविया डल-झीलातटे ‘सण्डे-ऑन-साइकिल’ कार्यक्रमस्य उद्घाटनं कृतवान्। सः संवाददातॄन् प्रति उक्तवान् यत् ‘सण्डे-ऑन-साइकिल’ इति कार्यक्रमः स्वास्थ्यसन्देशं वहति। यदि भारतं विकसितदेशः भवितुम् इच्छति, तर्हि नागरिकाः स्वस्थाः भवितुम् आवश्यकम्। यदा नागरिकाः स्वस्थाः भवन्ति, तदा समाजः अपि स्वस्थः भवति। केवलं स्वस्थः समाजः एव भारतं विकसितराष्ट्रं कर्तुं शक्नोति।
मन्त्री उक्तवान् यत् स्वास्थ्यलक्ष्यस्य सिद्ध्यर्थं देशव्यापिनः १६,००० स्थलेषु ‘सण्डे-ऑन-साइकिल’ कार्यक्रमाः आयोजिताः सन्ति। सः अपि अवदत् यत् अधुना प्रभृति श्रीनगर नगरे अस्माकं युवानः प्रति रविवासरं साइकिलयानं चालयित्वा ‘फिट-इण्डिया’ इति सन्देशं प्रसारयिष्यन्ति।
---------------
हिन्दुस्थान समाचार