Enter your Email Address to subscribe to our newsletters

सिरसानगरम्, २६ अप्रैलमास: (हि.स.)। हरियाणा-प्रदेशस्य पूर्व-वित्तमन्त्री तथा भारतीय-जनता-पक्षस्य नेता कैप्टन-अभिमन्युः उक्तवान् यत् विपक्षेण महिला-अधिनियमस्य विरोधं कृत्वा महत्त्वपूर्णः अवसरः नष्टः कृतः, तथा अधुना विपक्षस्य नेतृत्वं विचारहीनं जातम् अस्ति। सः अवदत् यत् एतेषां पक्षाणां जनसरोकारैः सह कश्चन सम्बन्धः नास्ति।
सः रविवासरे सिरसा-नगर्यां आयोजितस्य “भाईचारा-सम्मेलनस्य” अनन्तरं पत्रकारैः सह वार्तालापं कुर्वन् एतत् उक्तवान्।
आम-आदमी-पक्षस्य सप्त राज्यसभा-सांसदैः पक्ष-त्यागस्य विषये पृष्टः सः अवदत् यत् आम-आदमी-पक्षः स्व-दुष्कर्माणां भारात् द्रवति। सः उक्तवान् यत् एतेन “साधारण-जनस्य” मुखं धारयित्वा दिल्ली-पञ्जाबयोः शासनं कृतम्, किन्तु वस्तुतः तेषां स्वरूपं विशेषजनानाम् इव दृश्यते। सः आरोपितवान् यत् पञ्जाब-जनाः युवा-वर्गः च स्वं वञ्चितं मन्यते, तथा आम-आदमी-पक्षस्य भविष्यं नास्ति।
सः इदमपि उक्तवान् यत् पञ्जाब-जनाः अकाली-दल-बादल:, काङ्ग्रेस: तथा आम-आदमी-पक्षस्य सर्वान् प्रयोगान् दृष्टवन्तः, अधुना च अग्रिम-निर्वाचने भाजपारूपेण नूतनं विकल्पं पश्यन्ति।
भाईचारा-सम्मेलनं सम्बोधयन् सः अवदत् यत् सामाजिकैः जनैः सन्त-महापुरुषैः दर्शिते मार्गे गत्वा सात्विकानां स्वाभिमानिनां च जनानां सुदृढीकरणाय कार्यं कर्तव्यम्, येन समाजः राजनीतिक-स्वार्थैः षड्यन्त्रैः च सुरक्षितः भवेत्। सः इदमपि उक्तवान् यत् प्रदेशस्य छत्तीस-बिरादरीरूपः सामाजिक-सौहार्द-रूपपुष्पगुच्छो यः परिश्रमेण निर्मितः आसीत्, तस्मिन् राजनीतिक-कारणैः विश्वासस्य क्षयः जातः, यत् देशस्य समाजस्य च कृते हितकरं नास्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani