Enter your Email Address to subscribe to our newsletters

- श्रमिकवसतिषु ईष्टिका-भट्टाकं यावत्प्राप्स्यति दलं, 6 तः14 आयुर्वर्गस्य 100 प्रतिशतं नामांकनस्य लक्ष्यम्
लखनऊ, 26 अप्रैलमासः (हि.स.)।राज्य-सरकारेण शिक्षाक्षेत्रे महत्त्वपूर्णं निर्णायकं च पदं स्वीकृत्य ‘स्कूल-चलो-अभियानम्’ उत्तरप्रदेशे मिशन-मोडे प्रवर्तितम् अस्ति। सरकारस्य स्पष्टः संदेशः अस्ति यत् अधुना कश्चन अपि बालकः विद्यालयात् बहिः न भविष्यति। अस्यैव क्रमस्य अन्तर्गतं अपर-मुख्य-सचिवः (मूल-तथा-माध्यमिक-शिक्षा) पार्थ-सारथि-सेन-शर्मा सर्वेषां जिलाधिकारिणां प्रति निर्देशान् दत्तवान् यत् षट्-वर्षात् चतुर्दश-वर्ष-पर्यन्तानां प्रत्येकस्य बालकस्य नामाङ्कनं सर्वथा सुनिश्चितं क्रियताम्।
सरकारी-प्रवक्त्रा उक्तं यत् प्रथम-मे-दिनात् आरभ्य सम्पूर्ण-प्रदेशे विशेष-अभियानं चालयित्वा श्रमिक-बस्तिषु, ईंट-भट्टेषु तथा वञ्चित-वर्गेषु स्थितानां बालकानां चिन्हीकरणं कृत्वा तान् विद्यालयैः सह संयोज्यते। अयं अभियानः विशेषतः तेषां बालकानां प्रति केन्द्रितः भविष्यति ये अद्यावधि शिक्षायाः मुख्य-प्रवाहात् बहिः सन्ति।
दिव्याङ्ग-बालकानां नामाङ्कनस्य प्राथमिकता, आरटीई-अधिनियमस्य अन्तर्गतं लॉटरी-प्रणाल्या चयनितानां पात्र-बालकानां नियोजित-विद्यालयेषु शत-प्रतिशत-नामाङ्कनं तथा कस्तूरबा-गान्धी-बालिका-विद्यालयेषु बालिकानां प्रवेश-वृद्धिः इत्यादयः अपि निर्देशाः दत्ताः।
सरकारेण ड्रॉपआउट् तथा विद्यालय-बाह्य-बालकानां चिन्हीकरणं कृत्वा पुनः शिक्षायाः सह संयोजनार्थं स्थलीय-स्तरे रणनीतिः निर्मिता। पञ्चम-कक्षातः षष्ठ-कक्षां, अष्टम-कक्षातः नवम-कक्षां तथा दशम-कक्षातः एकादश-कक्षां प्रति शत-प्रतिशत-स्थानान्तरणं सुनिश्चितं कर्तुं निर्देशाः दत्ताः, येन बालकानां अध्ययनं मध्ये न विरमेत् तथा शिक्षायाः निरन्तरता अवशिष्टा भवेत्।
जागरूकता-अभियानैः, स्थानीय-प्रशासनस्य सक्रिय-सहभागितया तथा निरन्तर-निरीक्षणेन अस्य अभियानस्य प्रभाविता वर्धयितुं योजना अस्ति। अधिकारिभ्यः स्पष्टतया निर्देशाः सन्ति यत् प्रत्येकस्मिन् ग्रामे, केंद्रे,वसतौ च सर्वेक्षणं कृत्वा बालकान् चिन्हीकृत्य तान् विद्यालयैः सह संयोजयन्तु।
यत्र पूर्वं विद्यालय-त्यागः चिन्तायाः विषयः आसीत्, अधुना सरकारः गृहे-गृहे गत्वा प्रत्येकं बालकं विद्यालयेन सह संयोजयति।
------------------
हिन्दुस्थान समाचार