Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 26 अप्रैलमासः (हि. स.)।मन्त्रिमण्डलस्य मन्त्री गणेश जोशी रविवासरे विधानसभाक्षेत्रस्य हाथीबड़ाकला-स्थिते बूथ-संख्या ६९ इत्यत्र दलकार्यकर्तृभिः स्थानीयनागरिकैः सह नरेन्द्र मोदी इत्यस्य मासिक-रेडियो-कार्यक्रमस्य ‘मन की बात’ इत्यस्य १३३तमं संस्करणं सामूहिकतया अशृणोत्। सः उक्तवान् यत् ‘मन की बात’ कार्यक्रमः समाजे जागरूकतां जनयन् जनप्रेरणायाः शक्तिशाली माध्यमं जातम्।
अस्मिन् अवसरि गणेश जोशी अवदत् यत् ‘मन की बात’ कार्यक्रमः देशवासिनां कृते प्रेरणायाः महत्त्वपूर्णः स्रोतः अस्ति। सः उक्तवान् यत् एषः कार्यक्रमः न केवलं सूचनां ददाति, अपि तु समाजे जागरूकतां प्रसारयन् सामान्यजनान् सशक्तान् कर्तुं प्रभावी मञ्चः अपि अस्ति। सः जनान् प्रति अपीलं कृतवान् यत् ते नियमिततया एतं कार्यक्रमं शृण्वन्तु, तस्मात् प्रेरणां गृहित्वा राष्ट्रनिर्माणे सक्रियतया सहभागित्वं वहन्तु।
अस्मिन् समये मण्डलाध्यक्षः प्रदीप रावत, महिला-मोर्चा-अध्यक्षा सुनीता डंडरियाल, आरएस परिहार, निरंजन डोभाल, अशोक गुप्ता, संजय नौटियाल, अर्जुन सिंह, दिनेश चंद्र सकलानी (सेनानिवृत्त-कप्तानः) इत्यादयः अन्ये च दलपदाधिकारी कार्यकर्तारः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार