Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, २६ अप्रैलमासः (हि.स.)। इंडियन रेडक्रॉस उत्तराखण्डस्य अध्यक्षः तथा ऋषिकुल-राजकीय-आयुर्वेद-महाविद्यालयस्य प्रोफेसरः (डॉ.) नरेश-चौधरी इत्येषः स्वस्य साहसिक-मानवीय-कार्याय जनपदाधिकारी हरिद्वारम् मयूर-दीक्षितेन पञ्चसहस्र-रूप्यकाणां आहरणपत्रं प्रदाय सम्मानितः।
मार्ग-दुर्घटनासु आहतान् समये एव चिकित्सालयं प्रापयित्वा तेषां जीवनरक्षणं कुर्वतां नागरिकाणां प्रोत्साहनाय सञ्चालितायाः परिवहन-विभागस्य “नेक-राहवीर-योजना” अन्तर्गतं अयं प्रशंसनीयः दृष्टान्तः समागतः।
प्राप्त-सूचनानुसारं २२ मे २०२५ तमे दिनाङ्के नेशनल-हाइवे-नजीबाबाद-मार्गे डॉ.नरेश-चौधरी इत्यनेन विजेन्द्र-सोनू नामकौ द्वौ जनौ गंभीर-रूपेण आहतौ मार्ग-पार्श्वे पतितौ दृष्टौ। तेषां दुरवस्थां दृष्ट्वा सः तत्क्षणमेव मानवीय-भावेन प्राथमिक-चिकित्सां दत्तवान्। स्वकीय-वाहनेन तौ जिला-चिकित्सालयं हरिद्वारं प्रति नीतवान्। एकस्य आहतस्य स्थितिः अतिगम्भीरा भवति इति ज्ञात्वा सः स्वयं एम्बुलेंस-व्यवस्थां कृत्वा तं एम्स-ऋषिकेशं प्रति अग्रे प्रेषितवान्।
डॉ.चौधरी इत्यस्य शीघ्र-प्रतिक्रियया तथा संवेदनशीलतया द्वयोः आहतयोः बहुमूल्यं जीवनं रक्षितम्।
अस्मिन् अवसरे जनपदाधिकारी मयूर-दीक्षितः उक्तवान् यत् डॉ.नरेश-चौधरी इत्यनेन कृतं कार्यं केवलं प्रशंसनीयम् एव न, अपि तु समाजाय प्रेरणास्पदम् अपि अस्ति। सः अवदत् यत् सड़क-दुर्घटनासु “स्वर्णिम-समये” शीघ्र-चिकित्सा अत्यावश्यकी भवति, यया मृत्युसंख्या न्यूनीकर्तुं शक्यते।
सम्मानं प्राप्य डॉ.नरेश-चौधरी उक्तवान् यत् मानव-सेवा तस्य जीवनस्य मूल-उद्देश्यम् अस्ति। सः अवदत् यत् एतत् सम्मानं तस्मै अधिकां प्रेरणां ददाति यत् सः समाज-सेवायां अधिकं समर्पणेन कार्यं करोति। सः एतत् स्वजीवनस्य अमूल्य-धनम् इति उक्त्वा जनानां विश्वासं आशीर्वादं च सर्वोत्तमं सम्मानम् इति अभिहितवान्।
अस्मिन् कार्यक्रमे संयुक्त-आयुक्तः परिवहनविभाग: राजीव-मेहरा, आरटीओ संदीप-सैनी, श्रीमती अनिता-चमोला, एआरटीओ निखिल-शर्मा, नेहा-झा, परिवहन-अधिकारी भारत-भूषणः, उत्तराखण्ड-आयुर्वेद-विश्वविद्यालयस्य कुलपतिः प्रो. (डॉ.) अरुण-त्रिपाठी तथा परिसर-निदेशकः डॉ. अनूप-गक्खड़ इत्यादयः बहवः अधिकारीगणाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता