Enter your Email Address to subscribe to our newsletters

हमीरपुरम्, 27 अप्रैलमासः (हि.स.)।
जनगणना 2027-कार्यस्य सुचारुरूपेण समापनार्थं तथा तत्र नियुक्तानां अधिकारीणां कर्मचारिणां च प्रशिक्षणाय सोमवासरे हमीरपुर-नगरे हमीर-भवने क्षेत्र-प्रशिक्षकाणां (फील्ड-ट्रेनराणां) कार्यशाला आरब्धा। अस्य त्रिदिवसीय-कार्यशालायाः उद्घाटन-सत्रे भाषमाणा उपायुक्ता तथा हमीरपुर-जिलायाः प्रधान-जनगणना-अधिकारी गंधर्वा राठौड़ अवदत् यत् जनगणना 2027-कार्यं अत्यन्तं महत्त्वपूर्णा प्रक्रिया अस्ति, अस्मिन् च क्षेत्र-स्तरे सम्यक्-दत्त-सङ्ग्रहणं तथा अभिलेखनं (एण्ट्री) अतीव आवश्यकम्। यतः अस्यैव दत्तस्य आधारेण भविष्य-योजनाः निर्मीयन्ते।
उपायुक्तया उक्तं यत् भारतस्य एषा षोडशी (१६) जनगणना पूर्णतया डिजिटल-रूपेण भविष्यति, अस्य कृते त्रयः डिजिटल-प्रक्रियाः निर्धारिताः सन्ति। जनाः स्वयम् अपि स्व-प्रगणना-पटले ऑनलाइन-रूपेण स्वविवरणं पूरयितुं शक्नुवन्ति। सा अवदत् यत् हमीरपुर-जिला देशस्य अतीव साक्षर-जागरूक-जनपदानां मध्ये अन्यतमः अस्ति। यदि क्षेत्र-स्तरे जनान् जनगणना-विषये जागरूकाः कृताः स्युः तथा स्वयम् विवरणं पूरयितुं प्रेरिताः स्युः, तर्हि एतत् कार्यं सुलभं भवेत्। अतः सर्वे अधिकारी जन-जागरूकतायां विशेषं ध्यानं कुर्वन्तु।
गंधर्वा राठौडस्सर्वान् मास्टर-प्रशिक्षकान् क्षेत्र-प्रशिक्षकान् च उक्तवती यत् ते अस्य कार्यशालायाः अनन्तरं स्व-स्व-क्षेत्रेषु पर्यवेक्षकान् (सुपरवाइजरान्) तथा प्रगणकान् प्रशिक्षयन्तु, तेषां सर्वासां शङ्कानां समस्याः च शीघ्रं समाधानं कुर्वन्तु।
उपायुक्तया उक्तं यत् जनगणनायाः प्रथम-चरणे सर्वेषां गृहाणां अन्य-भवनानां च सूचीकरणं क्रियते, अस्मिन् च जिलायां अस्य प्रगति सन्तोषजनका अस्ति। सा अवदत् यत् कतिपयेषां जनानां गृहाणि अन्याः सम्पत्तयः च बहुषु स्थानेषु सन्ति, तेषां गणनायां विशेष-सावधानी आवश्यकाः। एकस्य व्यक्तेः गणना केवलं एकस्मिन् एव स्थाने क्रियेत, येन जनसंख्यायाः यथार्थःआकङ्कः प्रकाशं गच्छेत्।
कार्यशालायाः प्रथम-दिने मास्टर-प्रशिक्षिका तथा बमसन-क्षेत्रस्य खण्ड-विकास-अधिकारिणी वैशाली शर्मा तथा द्वितीयः मास्टर-प्रशिक्षकः रमेश कुमार जनगणना-संबद्धान् अधिनियम-नियमांश्च, क्षेत्र-प्रशिक्षकाणां कर्तव्यांश्च विस्तरेण अवेदयताम्।
---------------
हिन्दुस्थान समाचार