भोपाल-नगर्याम् अष्टादश-तमस्य विज्ञान-मन्थन-यात्रायाः भव्यं समापनम् अभवत्
भोपाल-नगरम्, २७ अप्रैलमासः (हि.स.)। मध्यप्रदेश-विज्ञान-एवं-प्रौद्योगिकी-परिषदा आयोजितायाः अष्टादश-तमायाः विज्ञान-मन्थन-यात्रायाः समापनं सोमवासरे नेहरू-नगरस्थित-विज्ञान-भवने उत्साहपूर्णे गरिमामये च वातावरणे सम्पन्नः अभवत्। मुख्य-अतिथिः विज्ञान-भारत
मप्रः भोपाल में 18वीं विज्ञान मंथन यात्रा का भव्य हुआ समापन


भोपाल-नगरम्, २७ अप्रैलमासः (हि.स.)। मध्यप्रदेश-विज्ञान-एवं-प्रौद्योगिकी-परिषदा आयोजितायाः अष्टादश-तमायाः विज्ञान-मन्थन-यात्रायाः समापनं सोमवासरे नेहरू-नगरस्थित-विज्ञान-भवने उत्साहपूर्णे गरिमामये च वातावरणे सम्पन्नः अभवत्।

मुख्य-अतिथिः विज्ञान-भारती-राष्ट्रीय-संगठन-मन्त्री डॉ.शिवकुमार: शर्मा “विज्ञान” तथा “मन्थन” इत्येतयो: अवधारणां विवृण्वन् उक्तवान् यत् विज्ञानं सतत-सत्य-अन्वेषण-प्रक्रिया अस्ति, मन्थनं च निरन्तर-चिन्तन-आत्मविश्लेषणस्य प्रतीकम्। उभयोः समन्वयेन नवाचार-सृजन-सम्भावनाः विकसिताः भवन्ति।

मैपकास्ट-निदेशकः डॉ.अनिल: कोठारी उक्तवान् यत् विज्ञानं केवलं सैद्धान्तिक-ज्ञानं न, अपि तु प्रयोग-अनुभवाभ्यां जीवन-सम्बद्ध-प्रक्रिया अस्ति। अस्मिन् कार्यक्रमे अनेकाः वरिष्ठ-वैज्ञानिकाः अधिकारीणश्च उपस्थिताः आसन्।

२१ तः २७ अप्रैलपर्यन्तं सञ्चालितायां अस्यां ज्ञान-यात्रायां विद्यार्थिनः शिक्षकाः वैज्ञानिकाश्च सहभागं कृत्वा विज्ञान-विषये नवीनां दृष्टिं प्राप्तवन्तः। यात्रायां श्रीहरिकोटा-स्थितं सतीश-धवन-अन्तरिक्ष-केन्द्रम्, इसरो-बेंगलुरु-प्रयोगशालाः, दीप-स्पेस-नेटवर्कम्, चेन्नई-स्थिताः वैज्ञानिक-संग्रहालयाः प्लेनेटेरियम् च दृष्टवन्तः।

समापन-अवसरे प्रतिभागिनः स्वानुभवान् अवदन् यत् रॉकेट-प्रक्षेपण-स्थलदर्शनात् आरभ्य उपग्रह-नियन्त्रण-प्रणालीपर्यन्तं प्रत्यक्ष-अवलोकनेन तेषां वैज्ञानिक-जिज्ञासा-आत्मविश्वासयोः वृद्धिः अभवत्। शिक्षकाः अपि उक्तवन्तः यत् एषा यात्रा विद्यार्थिषु वैज्ञानिक-चिन्तनं, अनुशासनं, सहकार्य-भावनां च वर्धयति।

अन्ते डॉ.सुनीलगर्गः सर्वान् प्रति आभार-प्रदर्शनं कृतवान्। समापनावसरे इदं स्पष्टं जातं यत् एषा विज्ञान-मन्थन-यात्रा केवलं शैक्षणिक-भ्रमणं न, अपि तु एका प्रभावी ज्ञान-यात्रा अस्ति, या विद्यार्थिनः नवाचार-अनुसन्धानयोः प्रेरयति।

हिन्दुस्थान समाचार / Dheeraj Maithani