भारत-न्यूजीलैंडयोर्मिथो मुक्त व्यापारसहमतिरद्य हस्ताक्षरिता
नव दिल्ली, 27 अप्रैलमासः (हि.स)। भारत तथा न्यूजीलैंड देशौ वस्तु-सेवा-सम्बद्धयोः द्विपक्षीय-व्यापारस्य वर्धनाय तथा निवेश-प्रोत्साहनाय मुक्त-व्यापार-सहमतिविषये सोमवासरे हस्ताक्षरं करिष्यतः। इयं सहमतिः उभयपक्षयोः निर्धारित-तिथेः अनन्तरं प्रवर्तिष्यत
भारत-न्यूजीलैंड के लोगो का प्रतीकात्मक चित्र


नव दिल्ली, 27 अप्रैलमासः (हि.स)।

भारत तथा न्यूजीलैंड देशौ वस्तु-सेवा-सम्बद्धयोः द्विपक्षीय-व्यापारस्य वर्धनाय तथा निवेश-प्रोत्साहनाय मुक्त-व्यापार-सहमतिविषये सोमवासरे हस्ताक्षरं करिष्यतः। इयं सहमतिः उभयपक्षयोः निर्धारित-तिथेः अनन्तरं प्रवर्तिष्यते।

आधिकारिक-स्रोतभिः उक्तं यत् अस्यां सहमतौ विंशतिः (२०) अध्यायाः सन्ति, येषु वस्तु-व्यापारः, मूल-नियमाः, सेवाः, सीमाशुल्क-व्यवस्था तथा व्यापार-सुगमता, एसपीएस, टीबीटी, व्यापार-उपायाः, विवाद-निवारणं तथा विधिक-प्रावधानानि समाविष्टानि सन्ति।

एफटीए इति द्वयोः अथवा अधिकानां देशानां मध्ये एकः आर्थिक-समझौताः अस्ति, यस्मिन् ते परस्परं व्यापारितेषु बहुषु वस्तुषु सीमाशुल्कं निष्कासयितुं अथवा बहुधा न्यूनीकर्तुं सहमताः भवन्ति। तेन सह ते ताः बाधाः अपि न्यूनीकुर्वन्ति, याः द्विपक्षीय-व्यापारं निवेशं च प्रभावितुं शक्नुवन्ति।

केन्द्रीय-वाणिज्य-उद्योग-मन्त्री पीयूष गोयल अवदत् यत् भारत तथा न्यूजीलैंड देशौ अद्य नई दिल्ली नगरे मुक्त-व्यापार-समझौते हस्ताक्षरं करिष्यतः। अयं समझौताः उभयोः देशयोः आर्थिक-सम्बन्धानां सुदृढीकरणे महत्त्वपूर्णः चरणः अस्ति।

आगरा-स्थिते ताजमहल समीपे टॉड मैक्ले सह उक्तवान् यत् दीर्घकालीन-उच्च-स्तरीय-चर्चानां अनन्तरं अयं समझौताः अन्तिम-रूपं प्राप्तवान्। उभयोः देशयोः नेतॄणां उपस्थितौ अस्मिन् हस्ताक्षरं भविष्यति।

अस्य समझौतस्य उद्देश्यं आगामि-पञ्च-वर्षेषु द्विपक्षीय-व्यापारं वर्धयित्वा पञ्च-अर्बुद-डॉलर-पर्यन्तं नेतुम् अस्ति।

उल्लेखनीयम् यत् उभयोः देशयोः मध्ये अस्य सहमतेश्चर्चाः प्रथमं २०१० तमे वर्षे आरब्धाः, २०१५ तमे वर्षे नव-भ्रमणानन्तरं विरताः, पुनः च मार्च् २०२५ तमे वर्षे आरब्धाः। ततः १६ मार्च् २०२५ दिने वार्ता पुनः आरब्धा, २२ दिसम्बर् २०२५ दिने वार्ता-समाप्तिः घोषिताऽभूत्, यस्य उपरि सोमवासरे २७ एप्रिल् हस्ताक्षरं भविष्यति।

---------------

हिन्दुस्थान समाचार