Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, २७ अप्रैलमासः (हि.स.)। मध्यप्रदेशे उच्च-शिक्षा-विभागान्तर्गत् सर्वेषु शासकीय-अशासकीय-महाविद्यालयेषु तथा एनसीटीई-पाठ्यक्रम-संचालित-महाविद्यालयेषु शैक्षणिक-सत्राय २०२६–२७ कृते प्रवेश-प्रक्रिया १ मई-दिनाङ्कात् प्रारभ्य ३० जून २०२६ पर्यन्तं प्रवर्तिष्यते।
अधिकारिभिः उक्तं यत् प्रवेश-प्रक्रिया त्रिषु चरणेषु आयोजितं भविष्यति—द्वौ केंद्रीकृत-चरणौ एकश्च सीएलसी (महाविद्यालय-स्तरीय-परामर्शः) चरणः। विद्यार्थिनः “ई-प्रवेश” दूरभाषतन्त्रांश: तथा अन्तर्जाल-पटल-माध्यमेन गृहात् एव पञ्जीकरणं कर्तुं शक्नुवन्ति।
पञ्जीकरण-शुल्कं एनसीटीई तथा परम्परागत-पाठ्यक्रमेषु १०० रूप्यकाणि निर्धारितम् अस्ति, तथा पटल-शुल्कं पूर्णतः समाप्तम्। प्रथम-चरणे छात्राणां कृते शुल्कं न भविष्यति, द्वितीय-चरणात् १५० रूप्यकाणि शुल्कं निर्धारितम्।
राष्ट्रीय-शिक्षा-नीति-२०२० अनुरूपं वॉक-इन-इण्टरव्यू माध्यमेन अन्य-विषयेषु प्रवेशस्य अपि अवसरः दत्तः अस्ति, यः २७ अप्रैलतः १४ मई २०२६ पर्यन्तं आयोजितः भविष्यति।
प्रथम-आवंटन-सूची २० मई, द्वितीय ७ जून, तृतीय च २३ जून २०२६ तिथिषु प्रकाशिताः भविष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani