Enter your Email Address to subscribe to our newsletters

जयपुरम्, 27 अप्रैलमासः (हि.स.)।
राज्ये औद्योगिक-निवेशस्य प्रोत्साहनार्थं राजस्थान-राज्य-औद्योगिक-विकास-निवेश-निगमस्य (रीको) प्रत्यक्ष-आवंटन-योजनायाः दशमः चरणः एक-मई-दिनात् आरभ्यते। अस्यां योजनायां निवेशकानां कृते न्यून-व्ययेन औद्योगिक-भूमिखण्डाः उपलभ्यन्ते, येन राज्ये निवेश-पर्यावरणं सुदृढं जातम्।
मुख्यमन्त्रिणा भजनलाल-शर्मणा “राइजिंग राजस्थान ग्लोबल इनवेस्टमेंट समिट” इत्यस्मिन् कृतानि एम.ओ.यू. (समझौते) प्रत्यक्षतया कार्यान्वितुं एषा योजना महत्त्वपूर्णा सिद्धा भवति। मार्च २०२५ मासे आरब्धायां अस्यां योजनायां अद्यावधि १६६२ भूमिखण्डानां कृते आवंटन-पत्राणि वा प्रस्ताव-पत्राणि प्रदत्तानि सन्ति।
रीको-निगमेन निवेशकानां सुविधां दृष्ट्वा योजनायां महत्त्वपूर्णः परिवर्तनः कृतः। अधुना निवेशकाः चरणस्य आरम्भात् परम् अपि ई.एम.डी. इत्यस्य निक्षेपस्य अन्तिम-तिथेः (१४ मई) पर्यन्तं सहमतिहस्ताक्षरंकृत्वा योजनायां सहभागी भवितुं शक्नुवन्ति। अनेन अधिक-निवेशकानां सहभागिता वर्धिष्यते।
अस्मिन् चरणे १०३ औद्योगिक-क्षेत्रेषु ५५०० अधिकाः औद्योगिक-तथा-लॉजिस्टिक-भूमिखण्डाः उपलभ्यन्ते। एतेषु अजमेर, अलवर, भीलवाडा, बीकानेर, जयपुर, कोटा, सीकर इत्यादयः प्रमुखाः औद्योगिक-प्रदेशाः समाविष्टाः सन्ति। निवेशकानां वर्धमान-रुचिं दृष्ट्वा योजनायाः वैधता ३१ दिसम्बर-दिनपर्यन्तं विस्तारिताऽस्ति।
प्रस्तावितस्य दशम-चरणस्य ई-लॉटरी १९ मई-दिने आयोजिता भविष्यति। येषां भूमिखण्डानां कृते केवलम् एकः आवेदनः भविष्यति, तेषां प्रत्यक्ष-आवंटनं क्रियते; बहुषु आवेदनिषु लॉटरी-प्रक्रिया अनुवर्तिष्यते।
अद्यावधि नवसु चरणेषु समष्ट्या १६६२ भूमिखण्डाः आवंटिताः, येषां क्षेत्रफलम् प्रायः ४३७ हेक्टेयर् अस्ति, मूल्यं च २५०० कोटि-रूप्यकाधिकम्। एतेषु भूमिखण्डेषु स्थापिताभ्यः औद्योगिक-एककाभ्यः राज्ये प्रायः १८,००० कोटि-रूप्यकाधिकस्य निवेशस्य संभावना व्यक्ता अस्ति।
---------------
हिन्दुस्थान समाचार