146 उप स्वास्थ्य केंद्राणां भवनेभ्यः 80.30 कोटिरुप्यकाणां स्वीकृतिः
जयपुरम्, 27 अप्रैलमासः (हि.स.)।राजस्थानराज्ये ग्राम्यप्रदेशेषु स्वास्थ्यसेवानां सुदृढीकरणं सुलभतां च साधयितुं राज्यसर्वकारेण ८०.३० कोटिरूप्यकाणां (८०३० लक्षरूप्यकाणि) वित्तीयस्वीकृतिः प्रदत्ता अस्ति। अस्याः राशेः माध्यमेन राष्ट्रियस्वास्थ्य-मिशनस्य
जाेराराम


जयपुरम्, 27 अप्रैलमासः (हि.स.)।राजस्थानराज्ये ग्राम्यप्रदेशेषु स्वास्थ्यसेवानां सुदृढीकरणं सुलभतां च साधयितुं राज्यसर्वकारेण ८०.३० कोटिरूप्यकाणां (८०३० लक्षरूप्यकाणि) वित्तीयस्वीकृतिः प्रदत्ता अस्ति। अस्याः राशेः माध्यमेन राष्ट्रियस्वास्थ्य-मिशनस्य अन्तर्गतं प्रदेशे १४६ उप-स्वास्थ्य-केन्द्राणां (एस.एच.सी.) नूतन-भवननिर्माणं क्रियिष्यते। एषा स्वीकृतिः मुख्यमन्त्रिणः भजनलाल-शर्मणः अनुशंसया प्रदत्ता अस्ति।

अस्याः योजनायाः अन्तर्गतं सुमेरपुर-विधानसभा-क्षेत्रे मादड़ी, एन्दलावास, कानेलाव, खेतावास, वडेरवास, खरोकड़ा इत्यादिषु ग्रामेषु नूतन-उप-स्वास्थ्य-केन्द्र-भवनानि निर्मास्यन्ते।

स्थानीयविधायकः मन्त्रिमण्डल-सदस्यः च जोराराम-कुमावतः (पशुपालन-गोपालन-डेयरी-देवस्थान-विभागः) एतेषां षट्-ग्रामाणां कृते एस.एच.सी.-भवननिर्माणस्य स्वीकृतिं प्राप्त्वा मुख्यमन्त्रिणे भजनलाल-शर्मणे तथा चिकित्सामन्त्रिणे गजेन्द्रसिंह-खींवसराय धन्यवादं प्रकटितवान्। तेन उक्तं यत् प्रत्येकस्य उप-स्वास्थ्य-केन्द्रस्य कृते ५५ लक्षरूप्यकाणां राशि स्वीकृता अस्ति।

कुमावतः अवदत् यत् स्वास्थ्यविभागेन ग्राम्यप्रदेशेषु चिकित्सासुविधायाः अभावं दृष्ट्वा नूतन-उप-स्वास्थ्य-केन्द्राणां स्थापना तथा जीर्ण-भवनानां स्थाने आधुनिक-भवननिर्माणस्य निर्णयः कृतः। एतेषु केन्द्रेषु प्रसव-कक्षः, टीकाकरण-सेवा, सामान्य-ओपीडी इत्यादयः मूलभूत-सुविधाः उपलभ्यन्ते।

तेन अपि उक्तं यत् एतेषां केन्द्राणां प्रारम्भे ग्रामीणानां प्राथमिक-चिकित्सा, मातृ-शिशु-स्वास्थ्य-सेवा, टीकाकरणादिषु कृते नगरं प्रति गन्तुं न आवश्यकं भविष्यति। नूतन-भवनानि आधुनिक-चिकित्सा-उपकरणैः सुसज्जितानि भविष्यन्ति, येन स्वास्थ्यसेवानां गुणवत्ता कार्यक्षमता च वर्धिष्यते।

तत्सह एते उप-स्वास्थ्य-केन्द्राः हेल्थ-एण्ड-वेलनेस-केन्द्ररूपेण (एच.डब्ल्यू.सी.) अपि विकसिताः भविष्यन्ति, यत्र गम्भीर-रोगाणां प्रारम्भिक-परीक्षणं निदानं च शक्यं भविष्यति। एतेषु केन्द्रेषु ए.एन.एम. तथा स्टाफ-नर्सयोः उपस्थितौ प्रायः द्वादशविधानि स्वास्थ्य-सेवाः प्रदास्यन्ते।

अस्य निर्णयस्य सुमेरपुर-क्षेत्रस्य ग्रामीणजनाः स्वागतं कृतवन्तः। दीर्घकालात् ते एतां मागधां कुर्वन्तः आसन् यत् लघु-स्वास्थ्य-समस्याभिः अपि २०-३० किलोमीटर-दूरं नगरं प्रति गन्तुं न आवश्यकं भवेत्। अधुना एतेषां केन्द्राणां निर्माणेन न केवलं चिकित्सा-सुविधाः सुलभाः भविष्यन्ति, अपितु दूरवर्ती-प्रदेशेषु स्वास्थ्य-स्तरे अपि उल्लेखनीयः सुधारः अपेक्षितः अस्ति।

हिन्दुस्थान समाचार