Enter your Email Address to subscribe to our newsletters

नैनीताल-नगरम्, २७ अप्रैलमासः (हि.स.)। नैनीताले कुमाऊँ-विश्वविद्यालयस्य एमआईईटी इत्यनेन आयोजिते व्यवसाय-शिखर-सम्मेलने उद्यमिता, स्टार्टअप् तथा बूटकैम्प्-संबद्धेषु विविधेषु विषयेषु सत्राणि आयोजितानि, यस्मिन् महाविद्यालय-विद्यार्थिनः, शोधार्थिनः तथा विद्यालयीय-विद्यार्थिनः सक्रियतया सहभागितां कृत्वा स्वीयान् नवाचारपूर्णान् विचारान् प्रस्तुतवन्तः।
अस्मिन् सम्मेलने अन्तर्गतं आयोजिते बूटकैम्प तथा विद्यालय-स्तरीय-विचार-प्रस्तुति-सत्रे चतुर्विंशतिः अभिनव-व्यावसायिक-प्रस्तावाः प्रस्तुताः।
पार्वती-प्रेमा-जगाती-सरस्वती-विहार-नैनीताल-विद्यालयस्य छात्राः शिवा, अनय-अग्रवालः तथा प्रत्युष-बिष्टः उत्कृष्ट-प्रस्तुत्या निर्णायकान् प्रभावितवन्तः, तथा २५००-रूप्यक-परिमितं पारितोषिकं प्राप्तवन्तः।
विद्यालयस्य प्रधानाचार्यः डॉ.सूर्यप्रकाशः विद्यार्थिनां उपलब्धिं प्रशंसन् अवदत् यत् नवाचारः उद्यमिता च वर्तमान-समये अत्यावश्यकौ स्तः, तथा एतादृशाः मंचाः विद्यार्थिभ्यः स्वकीय-कौशल-विकासाय उत्तमम् अवसरं ददति। विद्यालय-प्रबन्धनं शिक्षकाः च विद्यार्थिभ्यः शुभाशिषः दत्त्वा भविष्ये अपि एतादृशेषु आयोजनेषु सहभागितां वर्धयितुं प्रेरितवन्तः।
हिन्दुस्थान समाचार / Dheeraj Maithani