वाराणसी-नगर्यां प्रधानमन्त्री नरेन्द्र-मोदी १६३ परियोजनानां लोकार्पणं शिलान्यासं च करिष्यति, भाजपा-कार्यकर्तृषु महान् उत्साहः
वाराणसीनगरम्, २७ अप्रैलमासः (हि. स.)।प्रधानमन्त्री नरेन्द्र-मोदी २८ अप्रैल-दिने वाराणसी-नगर्यां बरेका-इत्यस्य विशाल-प्राङ्गणात् ६३३२ कोटि-रूप्यक-मूल्यानां १६३ परियोजनानां लोकार्पणं शिलान्यासं च करिष्यन्ति। तासु १०५४ कोटि-रूप्यक-मूल्यानां ५० परियोजन
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)


वाराणसीनगरम्, २७ अप्रैलमासः (हि. स.)।प्रधानमन्त्री नरेन्द्र-मोदी २८ अप्रैल-दिने वाराणसी-नगर्यां बरेका-इत्यस्य विशाल-प्राङ्गणात् ६३३२ कोटि-रूप्यक-मूल्यानां १६३ परियोजनानां लोकार्पणं शिलान्यासं च करिष्यन्ति। तासु १०५४ कोटि-रूप्यक-मूल्यानां ५० परियोजनानां लोकार्पणं भविष्यति तथा ५२७७ कोटि-रूप्यक-मूल्यानां ११३ परियोजनानां शिलान्यासः भविष्यति। तेन सह प्रधानमन्त्री बरेका-प्राङ्गणात् ५० सहस्र-संख्याकाः स्थानीय-महिलाः तथा भाजपा-महिला-कार्यकर्त्र्य: सम्बोधयिष्यन्ति। महिला-सम्मेलने महिलानां आगमनार्थं भाजपा-महानगर-पदाधिकारी तथा स्थानीय-जनप्रतिनिधयः स्व-सम्पूर्ण-क्षमतया सम्पर्कं कुर्वन्ति। महिलाभ्यः सम्पर्क-कार्ये बहुसंख्यकाः भाजपा-महिला-पदाधिकारी अपि महता उत्साहेन संलग्नाः सन्ति।

प्रधानमन्त्री-नरेन्द्र-मोदिन: वाराणसी-आगमनस्य सन्दर्भे भाजपा-कार्यकर्तृणां उत्साहं विषये महानगर-महामन्त्री जगदीश-त्रिपाठी उक्तवान् यत् प्रधानमन्त्री नरेन्द्र-मोदी यदा अपि स्वस्य संसदीय-क्षेत्रे आगच्छति तदा नगराय विकास-उपहारं दत्वा एव गच्छति तथा भाजपा-कार्यकर्तृषु उत्साहं उमङ्गं च पूरयति। अस्मिन् अवसरे प्रमुख-परियोजनासु नगर-निगम-कार्यालय-भवन-निर्माणम्, रेलमार्ग-सेतु-निर्माणम्, अस्सी-घाटे उद्यान-विकासः, दीनदयाल-चिकित्सालयस्य विस्तारः, शत-शय्या-युक्त-गम्भीर-चिकित्सा-खण्ड-निर्माणम्, मार्ग-विस्तारणम्, पेयजल-नालिका-जाल-विस्तारः, छात्रावास-बालगृह-निर्माणम्, चतुर्विंशतिघण्टा-विद्युत्-आपूर्ति-योजना इत्यादयः अन्तर्भवन्ति। विकासस्य नूतनाः आयामाः अत्र सम्बोध्यन्ते।

भाजपा-पदाधिकारी साधना-वेदान्ती तथा पूजा-दीक्षित: उक्तवत्यौ यत् नारी-वन्दन-अधिनियमस्य पारणार्थं प्रधानमन्त्री नरेन्द्र-मोदिना संसदि पूर्णः प्रयासः कृतः, किन्तु विपक्ष-दलानां दुर्भावनया सः ऐतिहासिकः अधिनियमः महिलानां पक्षे कार्यान्वितुं न शक्यः अभवत्। २८ अप्रैल-दिने महिला-सम्मेलने प्रधानमन्त्री नरेन्द्र-मोदी महिलानां भविष्य-विषये अनेकार्थकानि महत्वपूर्ण-विषयानि प्रस्तोष्यति। अस्य कार्यक्रमस्य निमित्तं बहुसंख्यक-स्त्रीणां उपस्थित्यर्थं गृहे-गृहे गत्वा सम्पर्कः कृतः, पत्रिकाः वितर्य मातृ-भगिनीः आमन्त्र्यन्ते।

वाराणसी-ग्रामीण-क्षेत्रेषु भाजपा-क्षेत्रीय-अध्यक्षः दिलीप-पटेल तथा जनपद-अध्यक्षः हंसराज-विश्वकर्मा अपि प्रातः-सायं सम्पर्क-कार्ये निरतौ स्तः। तथा २८ अप्रैलमासस्य कार्यक्रमं ऐतिहासिकं कर्तुं भाजपा-प्रदेश-अध्यक्षः पङ्कज-चौधरी तथा प्रदेश-महामन्त्री-सङ्घटनं धर्मपाल अपि वाराणसी-नगर्यां उपस्थितिं दर्शयित्वा स्थानीय-पदाधिकारिणां उत्साहं वर्धयन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता