Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, २७ अप्रैलमासः (हि.स.)। प्रधानमन्त्रिणो -नरेन्द्रमोदिनो द्विदिवसीय-वाराणसी-यात्रां दृष्ट्वा सोमवासरे नगर्यां सुरक्षा-व्यवस्थायाः ग्रैण्ड-अभ्यास: आयोजित: अभवत्। आरक्षक-आयुक्तः मोहित-अग्रवालः सर्वस्य नियुक्त-बलस्य ब्रीफिङ्ग कृत्वा सुरक्षा-यातायात-भीड-प्रबन्धन-प्रोटोकॉल-पालन-विषये निर्देशान् दत्तवान्।
अस्मिन् अभ्यासे वीवीआईपी-मार्गस्य “नो-फ्लाई-जोन” इति घोषणा कृता, तथा ड्रोन-उड्डयनं पूर्णतः निषिद्धम्। मार्गेषु सीसीटीवी-सर्विलांस-माध्यमेन सतत-निरीक्षणं क्रियते, तथा रूफ-टॉप-ड्यूटी अपि स्थापिता।
यात्रा-मार्गेषु यातायात-नियोजनं, वैकल्पिक-मार्गाणां संचालनं, आपात-सेवानां (एम्बुलेंस, अग्निशमनादीनां) निर्बाध-गमनं च सुनिश्चितम्। कार्यक्रम-स्थले प्रवेशः केवलं चेकिङ्-फ्रिस्किङ्-परिक्षणानन्तरम् एव भविष्यति।
अस्मिन् पूर्वाभ्यासे वायुसेनायाः हेलीकॉप्टर-ट्रायल-लैंडिङ् अपि कृतम्, यत् बरेका-मैदान-निकटे सम्पन्नम्। उच्च-स्तरीय-अधिकारीणः, पीएसी तथा अर्धसैनिक-बलानि च अस्मिन् सुरक्षा-अभ्यासे सम्मिलितानि आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani