Enter your Email Address to subscribe to our newsletters

हरिद्वार-नगरम्, २७ अप्रैलमासः (हि.स.)। कुम्भ-मेलापक: २०२७-इत्यस्य सज्जतानां अन्तर्गतं यातायात-व्यवस्थां प्रति व्यापकं मन्थनं कृतम्। अस्मिन् अवसरे प्रशासनम् विभिन्न-हितधारकेभ्यः सुझावान् आमन्त्र्य व्यवस्थां अधिकं प्रभावीकरणाय बलं दत्तवान्।
कुम्भ-मेलापक: २०२७-इत्यस्य सज्जतानां विषये सोमवासरे सीसीआर-स्थिते मेलापक-भवनस्य सम्मेलन-कक्षे गोष्ठी आयोजिता। अस्याः सभाया: अध्यक्षता कुम्भ-मेला-आईजी योगेन्द्रसिंह-रावत-महोदयेन कृता, यस्मिन् कुम्भ-मेला-यातायात-नियन्त्रण-उपसमित्याः अध्यक्षः एसएसपी नवनीतसिंहेन सहिताः अन्ये सदस्याः अपि सहभागिन: अभवन्।
सभायां साधु-सन्तः, होटल-संघस्य प्रतिनिधयः, टैक्सी-चालक-संघस्य सदस्याः तथा अन्ये सम्बद्धाः हितधारकाः अपि सहभागिन: अभवन्। अस्मिन् काले कुम्भ-मेलापकस्य समये यातायात-व्यवस्थां सुचारुं कर्तुं निर्मितस्य योजनायाः विषये विस्तृता चर्चा कृता।
आईजी योगेन्द्रसिंह-रावत-महोदयः तथा एसएसपी नवनीतसिंहः उपसमित्याः सदस्येभ्यः यातायात-योजनां अधिकं उत्कृष्टां कर्तुं विचारान् याचितवन्तौ। अधिकारिणः अपि उक्तवन्तः यत् प्राप्तानां उपयोगिनां विचाराणां तथा सुधार-बिन्दूनां आधारेण कार्ययोजनायां आवश्यकानि परिवर्तनानि करिष्यन्ते, येन मेलापके कस्यापि प्रकारस्य असुविधा न भवेत्।
सभायां एसपी ट्रैफिक/क्राइम निशा-यादव-महोदया अद्यावधि निर्मितस्य यातायात-प्रबन्धन-योजनायाः क्रमशः विवरणं प्रदत्तवती। अपरतः एसपी सिटी अभयसिंह-महोदयः उपस्थितानां सदस्यानां प्रश्नानां विस्तरेण उत्तराणि दत्तवान्।
आईजी योगेन्द्रसिंह-रावत-महोदयः आश्वासनं दत्तवान् यत् यातायात-योजनां निर्मातुं श्रद्धालूनां, होटल-व्यवसायिनां, टैक्सी-टेम्पो-रिक्शा-संघानां, अखाड़ा-परिषदः तथा साधु-समाजस्य सहितं सर्वेषां वर्गाणां हितानि सम्यक् अवलोक्य कार्यं करिष्यते।
एसएसपी नवनीतसिंहः उक्तवान् यत् मेलापके जनसमूहेन अनुकूलं पृथक्-पृथक् यातायात-योजनाः निर्मीयन्ते तथा ताः चरणबद्ध-रूपेण प्रवर्तिष्यन्ते। सफल-आयोजनाय सर्वेषां पक्षाणां मध्ये उत्तमः समन्वयः अत्यन्तं आवश्यकः इति सः अपि अवदत्।
हिन्दुस्थान समाचार / Dheeraj Maithani