Enter your Email Address to subscribe to our newsletters

चण्डीगढ-नगरम्, २७ अप्रैलमासः (हि.स.)। हरियाणा-प्रदेश-काङ्ग्रेस-अध्यक्षः राव-नरेन्द्रसिंहः भाजपा-सांसदया रेखा-शर्मणा पूर्व-मुख्यमन्त्रिणः स्वर्गीय-चौधरी-भजनलालस्य तथा विधायकस्य चन्द्रमोहनस्य विरुद्धं कृता अमर्यादितां टिप्पणीं तीव्रतया निन्दन् अवदत् यत् एतत् वक्तव्यं सर्वथा लज्जाजनकं, अस्वीकार्यं च अस्ति तथा प्रदेशस्य जनतायाः अपमानं भवति। तेन उक्तं यत् एतादृशानि वक्तव्यानि न केवलं राजनैतिक- मर्यादाः भिन्दन्ति, अपि तु लोकतान्त्रिक-मूल्यानां सामाजिक-सभ्यतायाश्च उपरि प्रश्नचिह्नं स्थापयन्ति।
राव-नरेन्द्रसिंहः अवदत् यत् सार्वजनिक-जीवने स्थितेभ्यः व्यक्तिभ्यः संयमिता भाषा, शालीनं व्यवहारः, गरिमापूर्णं च आचरणम् अपेक्षितम् अस्ति। विशेषतया यदा कस्यचित् दिवंगत-जननेतुः विषयः भवति, येन स्वजीवनं जनसेवायै, प्रदेशस्य विकासाय, लोकतान्त्रिक-व्यवस्थायाः सुदृढीकरणाय च समर्पितम्, तदा तं प्रति एतादृशी अभद्रा टिप्पणी अतीव दुर्भाग्यपूर्णा निन्दनीया च अस्ति।
तेन उक्तं यत् स्वर्गीय-चौधरी-भजनलालः हरियाणा-राजनीत्याः एकः दृढः स्तम्भः आसीत्। तेन प्रदेशाय नूतना दिशा दत्ता, विकास-कार्याणि प्रवर्तितानि, सामान्य-जनानां स्वरः सत्तां प्रति नीतः। अद्यापि प्रदेशस्य जनता तस्य योगदानं सम्मानपूर्वकं स्मरति। एतादृशं महान्तं नेतारं प्रति अपमानजनक-शब्दानां प्रयोगः कोटि-जनानां भावनासु आघातं जनयति।
राव-नरेन्द्रसिंहः पुनरुक्तवान् यत् न केवलं स्वर्गीय-चौधरी-भजनलालस्य, अपि तु तस्य पुत्रस्य, पूर्व-उपमुख्यमन्त्रिणः, वरिष्ठ-काङ्ग्रेस-नेतुः, वर्तमान-विधायकस्य चन्द्रमोहनस्य विषये अपि यथा शब्दावली प्रयुक्ता, सा लोकतान्त्रिक- मर्यादाभ्यः, राजनीतिक-संस्काराभ्यः, सामाजिक-शुचितायाः च बहुदूरम् अस्ति। राजनीतिक-विरोधः स्वस्थानं धारयेत्, किन्तु व्यक्तिगत-आक्षेपाः अमर्यादिता भाषा च कस्यापि सभ्य-लोकतन्त्रे न स्वीकरणीया। अस्य कृते रेखा-शर्मा तथा भाजपा सार्वजनिकरूपेण चौधरी-भजनलाल-परिवारात्, चन्द्रमोहनात्, प्रदेशस्य जनतायाश्च क्षमायाचनां कुर्वन्तु। सहैव सम्बन्धित-सांसदस्य विरुद्धं अनुशासनात्मक-कार्यवाहीं कृत्वा एतं सन्देशं दातव्यं यत् भाजपा-दले अपि राजनैतिक- मर्यादानां सम्मानं क्रियते॥
हिन्दुस्थान समाचार / अंशु गुप्ता