नितिन-नवीनस्य जयपुर-आगमने भव्यं स्वागतम्, मार्ग-प्रदर्शने कार्यकर्तारः समागता:
जयपुर-नगरम्, २७ अप्रैलमासः (हि.स.)। जयपुरे भारतीय-जनता-पक्षस्य राष्ट्रीय-अध्यक्षस्य नितिन-नवीनस्य आगमने मुख्यमन्त्रिणः भजनलाल-शर्मणः नेतृत्वे भव्यं ऐतिहासिकं च स्वागतं कृतम्। विमानतलात् आरभ्य भाजपा-प्रदेश-मुख्यालयं यावत् मार्गस्य विभिन्नेषु स्थानेष
बीजेपी कार्यकर्ताओं-नेताओं ने भाजपा राष्ट्रीय अध्यक्ष नितिन नवीन के स्वागत में बिछाए पलक-पावड़े


बीजेपी कार्यकर्ताओं-नेताओं ने भाजपा राष्ट्रीय अध्यक्ष नितिन नवीन के स्वागत में बिछाए पलक-पावड़े


बीजेपी कार्यकर्ताओं-नेताओं ने भाजपा राष्ट्रीय अध्यक्ष नितिन नवीन के स्वागत में बिछाए पलक-पावड़े


जयपुर-नगरम्, २७ अप्रैलमासः (हि.स.)। जयपुरे भारतीय-जनता-पक्षस्य राष्ट्रीय-अध्यक्षस्य नितिन-नवीनस्य आगमने मुख्यमन्त्रिणः भजनलाल-शर्मणः नेतृत्वे भव्यं ऐतिहासिकं च स्वागतं कृतम्। विमानतलात् आरभ्य भाजपा-प्रदेश-मुख्यालयं यावत् मार्गस्य विभिन्नेषु स्थानेषु सहस्रशः पदाधिकाऱिणः कार्यकर्तारश्च वाद्य-निनादैः, पुष्पवर्षाभिः मन्त्र-उच्चारणैश्च तस्य अभिनन्दनम् अकुर्वन्।

राष्ट्रीय-अध्यक्षस्य स्वागताय आयोजिते विशाल-मार्ग-प्रदर्शने द्विचक्र-वाहनेषु आरूढाः भाजपा-युवा-मोर्चाया: कार्यकर्तारः भगवा-शिरोवस्त्राणि धारयन्तः उत्साहेन सहभागितां कृतवन्तः। सम्पूर्णे मार्गे उत्साह-ऊर्जा-पूर्णं वातावरणं दृष्टम्। विभिन्नेषु स्थानेषु भाजपा-महिला-मोर्चा, अनुसूचित-जनजाति-अनुसूचित-जाति-मोर्चा, अल्पसंख्यक-मोर्चा इत्यादयः अन्ये अपि प्रकोष्ठाश्च स्वागतं कृतवन्तः।

सम्मान-समारोहे सम्बोधनं कुर्वन् नितिन-नवीनः अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदी तथा मुख्यमन्त्री भजनलाल-शर्मणः नेतृत्वे राजस्थान-राज्यं निरन्तरं प्रगतिपथे अग्रे गच्छति। सः पूर्व-उपराष्ट्रपतिं पूर्व-मुख्यमन्त्रिणं भैरोंसिंह-शेखावतं स्मृत्वा उक्तवान् यत् तस्य कर्मभूमौ राजस्थाने जनाः संकल्पेन समर्पणेन च संगठनं राज्यं च अग्रे नेतुं प्रयतन्ते। कार्यकर्तॄणां परिश्रमस्य आधारेण अग्रिम-निर्वाचनेषु भाजपा-ऐतिहासिक-विजयस्य अपि वार्तां कृतवान्।

मुख्यमन्त्री भजनलाल-शर्मा अपि स्वसम्बोधने अवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदी तथा राष्ट्रीय-नेतृत्वस्य मार्गदर्शने कार्यकर्तारः समर्पण-भावेन कार्यं कुर्वन्ति तथा संघटनस्य नीतिभिः अनुरूपं राज्यं विकासस्य दिशि अग्रे नयन्ति। ते उक्तवन्तः यत् दलस्य कार्यकर्तारः संगठन-विस्तारस्य सहैव शासनस्य जनकल्याणकारी-योजनानां जनसामान्यं प्रति प्रसारणस्य द्विगुणं दायित्वं वहन्ति।

भाजपा-प्रदेश-अध्यक्षः मदन-राठौडः अवदत् यत् भारतीय-जनता-पक्ष: विश्वस्य सर्वात् विशालं दलं अस्ति, तस्य कार्यकर्तारश्च राष्ट्रीय-नेतृत्वस्य आह्वानेन पूर्ण-प्रतिबद्धतया कार्यं कर्तुं सदा सज्जिता: भवन्ति। सः प्रदेशस्य राजनीतौ परिवर्तनस्य संकेतं दत्त्वा उक्तवान् यत् अस्मिन् समये पारम्परिक-राजनैतिक-समीकरणानि अपि परिवर्तिष्यन्ते।

अस्मिन् कार्यक्रमे मन्त्रिणः, सांसदाः, विधायकाः, संगठन-पदाधिकारिणः तथा बहुसंख्यकाः दल-कार्यकर्तारः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता