श्री अमरनाथ यात्रा 2026-लखनपुरे पूर्वसज्जानां समीक्षा
कठुआ, 28 अप्रैलमासः (हि.स.)। राजेश शर्मा, कठुआ-जनपदस्य उपायुक्तः, लखनपुरे आगामिनी अमरनाथ यात्रा-२०२६-व्यवस्थापनस्य समीक्षणं कृतवान्। अस्मिन् अवसरे मोहिता शर्मा तथा विश्वजीत सिंह अपि उपस्थितौ आस्ताम्। उपायुक्तेन फसिलिटेशन-केन्द्राय निर्दिष्टानां
Amarnath Yatra 2026 - Preparations Reviewed in Lakhanpur


कठुआ, 28 अप्रैलमासः (हि.स.)।

राजेश शर्मा, कठुआ-जनपदस्य उपायुक्तः, लखनपुरे आगामिनी अमरनाथ यात्रा-२०२६-व्यवस्थापनस्य समीक्षणं कृतवान्। अस्मिन् अवसरे मोहिता शर्मा तथा विश्वजीत सिंह अपि उपस्थितौ आस्ताम्।

उपायुक्तेन फसिलिटेशन-केन्द्राय निर्दिष्टानां भवनानां निरीक्षणं कृत्वा पञ्जीकरण-व्यवस्था, पेयजल-विद्युत्-स्वास्थ्य-सेवा-सुरक्षा-यातायात-व्यवस्थाश्च सम्यक् परीक्षिताः। तेन तेगबहादुर कॉलेज तथा विवेकानंद कॉलेज इत्येतयोः स्थापितानां यात्रि-विश्राम-केन्द्रयोः अपि निरीक्षणं कृत्वा स्वच्छता, शय्या-व्यवस्था, जल-विद्युत्-सेवा अन्याश्च सुविधाः परिशीलिताः।

उपायुक्तेन सर्वेषां विभागानां प्रति निर्देशाः दत्ताः यत् यात्राया आरम्भात् पूर्वं सर्वाः व्यवस्थाः पूर्णतया सिद्धाः क्रियन्ताम्, श्रद्धालूनां सुरक्षित-सुविधाजनका यात्रा सुनिश्चिता क्रियते इति।

---------------

हिन्दुस्थान समाचार