Enter your Email Address to subscribe to our newsletters


देवरिया, 28 अप्रैलमासः (हि.स.)।
देवरिया-जनपदे विकासखण्ड-पथरदेवा-अन्तर्गत मलघोट-विरैचा-ग्रामपञ्चायते मङ्गलवासरे “ग्राम-चौपाल (ग्रामस्य समस्या, ग्रामे एव समाधानम्)” इति कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे दिव्या मित्तल ग्रामीणाणां समस्याः श्रुत्वा तेषां शीघ्र-निवारणाय निर्देशान् दत्तवती।
चौपाल-अवसरे विविध-विभागैः स्टॉलाः स्थाप्य जनकल्याणकारी-योजनानां विषये सूचना प्रदत्ता। पात्र-लाभार्थिभ्यः तत्रैव योजनानां लाभः दत्त्वा स्वीकृति-पत्राणि वितरितानि। जिलाधिकारी सर्वेषां स्टॉलानां निरीक्षणं कृत्वा व्यवस्थां परीक्ष्य अधिकाऱेभ्यः जनहिताय कार्याणि अधिकं प्रभावीकरोतु इति आदेशान् अददात्।
कार्यक्रमे गोदभराई-अन्नप्राशन-इत्यादयः सामाजिक-कार्यक्रमाः अपि सम्पन्नाः। सहैव राशन-कार्ड, आयुष्मान-कार्ड, प्रधानमंत्री आवास योजना, वृद्धावस्था-पेंशन, निराश्रित-पेंशन-योजनादीनां लाभार्थिनः लाभान्विताः। अस्मिन् अवसरे छात्रैः सरस्वती-वन्दना, स्वागत-गीतं तथा सांस्कृतिक-कार्यक्रमाः प्रस्तुताः, ये सर्वैः प्रशंसिताः।
दिव्या मित्तल अवदत् यत् चौपाल-व्यवस्थया ग्रामीणाणां समस्याः ग्रामे एव समाधानं प्राप्नुवन्ति, येन विकास-कार्येषु तीव्रता वर्धते।
चौपाले बहुसंख्यकाः ग्रामीणाः सहभागित्वा योजनानां लाभं प्राप्य सन्तोषं व्यक्तवन्तः। कार्यक्रमे राजेश कुमार सिंह, डॉ. अनिल कुमार गुप्ता, सीमा पांडेय, जिला-विकास-अधिकारी तथा अन्ये विभागीय-अधिकारिणः उपस्थिताः आसन्।
-----------
हिन्दुस्थान समाचार