असम: एचएस इस्यस्य परिणामो घोषितः, आहत्य उत्तीर्णानां प्रतिशतं 81.54
गुवाहाटी, 28 अप्रैलमासः (हि.स.)। असम् उच्चतरमाध्यमिकशिक्षापरिषद् (एएचएसईसी) इत्यनेन मङ्गलवासरे उच्चतरमाध्यमिक (एचएस) अन्तिमपरीक्षाणां परिणामाः घोषिताः। सर्वेषु संकायेषु समग्रः उत्तीर्णप्रतिशतः 81.54 प्रतिशतः आसीत्। चतुर्षु संकायेषु विज्ञानसंकायस्य
असम हायर सेकेंडरी एजुकेशन काउंसिल


गुवाहाटी, 28 अप्रैलमासः (हि.स.)। असम् उच्चतरमाध्यमिकशिक्षापरिषद् (एएचएसईसी) इत्यनेन मङ्गलवासरे उच्चतरमाध्यमिक (एचएस) अन्तिमपरीक्षाणां परिणामाः घोषिताः। सर्वेषु संकायेषु समग्रः उत्तीर्णप्रतिशतः 81.54 प्रतिशतः आसीत्।

चतुर्षु संकायेषु विज्ञानसंकायस्य उत्तीर्णप्रतिशतः सर्वाधिकः 89.79 प्रतिशतः आसीत्। तदनन्तरं वाणिज्यसंकायस्य 81.13 प्रतिशतः, कलासंकायस्य 79.54 प्रतिशतः, तथा व्यावसायिकसंकायस्य 74.20 प्रतिशतः आसीत्।

कलासंकाये बाक्सा जनपदः 94.29 प्रतिशत उत्तीर्णप्रतिशतसहितः प्रथमस्थानं प्राप्तवान्, यदा चिराङ्ग जनपदः 92.99 प्रतिशतसहितः द्वितीयस्थानं प्राप्तवान्।

विस्तृतविवरणात् ज्ञायते यत् कलासंकाये कुलम् 1,91,798 छात्राः परीक्षायां उत्तीर्णाः। तेषु 54,755 छात्राः प्रथमश्रेण्यां, 79,181 द्वितीयश्रेण्यां, तथा 57,862 छात्राः तृतीयश्रेण्यां उत्तीर्णाः।

वाणिज्यसंकाये 15,796 छात्राः परीक्षां उत्तीर्णाः। तेषु 7,787 छात्राः प्रथमश्रेण्यां, 5,694 द्वितीयश्रेण्यां, तथा 2,315 छात्राः तृतीयश्रेण्यां उत्तीर्णाः।

विज्ञानसंकाये 54,474 छात्राः सफलाः अभवन्। तेषु 34,079 छात्राः प्रथमश्रेण्यां, 17,777 द्वितीयश्रेण्यां, तथा 2,618 छात्राः तृतीयश्रेण्यां उत्तीर्णाः।

व्यावसायिकसंकाये 1,465 छात्राः परीक्षायां सम्मिलिताः। समग्रतः सर्वेषु संकायेषु 3,22,723 छात्राः परीक्षायां उपविष्टाः।

परीक्षाधिकाऱिभिः अपि उक्तम् यत् नकलं वा अन्यानुचितसाधनप्रयोगस्य आरोपेण 190 छात्राः परीक्षातः निष्कासिताः, तथा 8,075 छात्राः परीक्षाकाले अनुपस्थिताः आसन्।

हिन्दुस्थान समाचार