Enter your Email Address to subscribe to our newsletters

गुवाहाटी-नगरम्, २८ अप्रैलमासः (हि.स.)। प्रसिद्ध-कलाकारस्य जुबीन-गर्गस्य मृत्युसम्बद्धे प्रकरणे फास्ट-ट्रैक-अदालते कार्यवाही प्रचलति। अस्यैव क्रमस्य अन्तर्गतं अद्य आरोपितस्य सिद्धार्थ-शर्मणः जमानत-याचिकायाः श्रवणं भविष्यति।
अस्मिन् प्रकरणे श्यामकानु-महन्तः अपि जमानतार्थं आवेदनं कृतवान्, यस्य याचिकायाः श्रवणं ३० अप्रैल-दिने निर्धार्यते।
उल्लेखनीयम् यत् सप्त आरोपितानां विरुद्धं चार्ज-हियरिंग-प्रक्रियेति पूर्वमेव सम्पन्ना अस्ति। अधुना श्यामकानु-महन्तः तथा सिद्धार्थ-शर्मा निकासी-कारागारे स्थितौ स्तः।
अस्यैव प्रकरणस्य अन्तर्गतं जुबीन-गर्गस्य द्वौ अंगरक्षकौ— नन्देश्वर-बोरा तथा परेश-वैश्यः अपि तत्रैव कारागारे निहितौ स्तः, यदा संदीपन-गर्गः अपि तत्रैव निरुद्धः अस्ति। अन्यौ आरोपितौ—शेखरज्योतिः तथा अमृतप्रभा—हाफलोंग-कारागारे स्थापितौ स्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता