Enter your Email Address to subscribe to our newsletters

धौलपुरनगरम्, २८ अप्रैलमासः (हि.स.)। ग्रामीण-क्षेत्रेषु जनकल्याणकारी-योजनानां प्रसारं सुनिश्चित्य सामान्य-जनान् शासन-संयोजनाय च जनपदे ‘ग्रामीण-रथ-अभियानस्य’ आरम्भः कृतः। जनपदाधिकारिणा श्रीनिधि-बी.टी.-महाभागेन तथा भाजपा-प्रदेश-कार्यसमिति-सदस्येन डॉ.शिवचरण-सिंह-कुशवाहा इत्यादिभिः जनप्रतिनिधिभिः विकास-रथान् हरित-ध्वजेन प्रस्थितान् कृतवन्तः।
जनपदाधिकारिणा उक्तं यत् एते विकास-रथाः आगामी-पञ्चदश-दिनानि यावत् जनपदस्य धौलपुर, बाड़ी, बसेड़ी, राजाखेड़ा इत्येषु चतुर्षु विधानसभाक्षेत्रेषु ग्रामेषु सञ्चरन्तः त्रयोदश-विभागानां योजनानां सूचना गृहं-गृहं प्रापयिष्यन्ति। रथानां माध्यमेन केवलं योजनासु जानकारी न, अपि तु तासां लाभ-ग्रहणाय अपि जनाः प्रेरिताः भविष्यन्ति।
डॉ.शिवचरण-सिंह-कुशवाहा अवदत् यत् अस्य अभियानस्य विशेषता एषा अस्ति यत् विकास-रथेषु सुझाव-पेटिकाः अपि स्थापिताः सन्ति, येन जनाः स्वीय-समस्याः सुझावांश्च प्रत्यक्षं शासनाय प्रेषयितुं शक्नुवन्ति। रथैः सह अधिकारिणां दलम् अपि नियुक्तम् अस्ति, यत् राजस्थान-संपर्क-हेल्पलाइन (१८१) इत्यत्र प्राप्तानां सूचनानां स्थले एव शीघ्रं समाधानं करिष्यति। अनेन शासनस्य उत्तरदायित्वं पारदर्शिता च अधिकं सुदृढे भविष्यतः।
अस्मिन् अवसरे प्रचार-पत्रिकायाः विमोचनम् अपि कृतम्। कार्यक्रमे मुख्य-कार्यकारी-अधिकारी (जिला-परिषद्) ए.एन.सोमनाथः, भाजपा-नेता मुकेश-सक्सैना, हरेंद्र-राव इत्यादयः अधिकारी-जनप्रतिनिधयः च उपस्थिताः आसन्।
अभियानस्य अन्तर्गतं २९ तथा ३० अप्रैल-दिने विभिन्न-ग्रामेषु प्रचार-प्रसार-कार्यक्रमाः आयोज्यन्ते, येन योजनानां लाभः सर्वेषु ग्रामेषु शीघ्रं प्राप्स्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता