Enter your Email Address to subscribe to our newsletters

राञ्ची-नगरम्, २८ अप्रैलमासः (हि.स.)। झारखण्ड-राज्ये अनुसूचित-क्षेत्रेषु पञ्चायत-विस्तारसम्बद्धायाः ‘पेसा-नियमावल्याः’ प्रभावी-क्रियान्वयनाय राज्य-शासनम् महत्त्वपूर्णं पदक्षेपं कृतवान्। पञ्चायती-राज-विभागेन मङ्गलवासरे राञ्ची-नगरे आयोजिते राज्य-स्तरीये गोलमेज-सम्मेलने एतत् निर्णयं कृतं यत् राज्य-स्तरात् प्रखण्ड-स्तरपर्यन्तं पेसा-समन्वय-समितीनां गठनं क्रियते। अस्य उद्देश्यं नियमावल्याः नियमित-समीक्षणं, स्थलीय-समस्याः परिचेतुं तासां समयबद्ध-निवारणं च सुनिश्चितयितुम् अस्ति।
मन्त्री दीपिका-पाण्डेय-सिंह: स्वीय-संबोधने अवदत् यत् पेसा-नियमावली केवलं कागद-पत्रं न भविष्यति, अपितु ग्राम-पञ्चायत-स्तरे तस्याः वास्तविक-प्रभावः स्पष्टतया दृश्यते। सा अपि अवदत् यत् एषा नियमावली आदिवासी-क्षेत्रेषु दीर्घकालात् प्रचलितां अपेक्षां पूरयति तथा स्थानीय-स्वशासनस्य सुदृढीकरणं करिष्यति।
तया विशेषतया ग्राम-सभासु महिलानां सहभागिता सुदृढीकरणे बलं दत्तम्। सहायक-सचिव-पदे महिलाभ्यः प्राधान्यं दत्तम् इति उक्तम्, येन अर्ध-जनसंख्यायाः सक्रिय-सहभागिता सुनिश्चिता भविष्यति तथा निर्णय-प्रक्रिया अधिकं समावेशिनी भविष्यति।
सा अवदत् यत् अनुसूचित-क्षेत्रेषु जनानां अधिकतम-लाभाय सर्वे विभागाः समन्वित-रूपेण कार्यं कुर्वन्तु इति आवश्यकम्।
सम्मेलने कांग्रेस-पक्षस्य राज्य-प्रभारी के.राजू उक्तवान् यत् झारखण्डस्य पेसा-नियमावली देशस्य श्रेष्ठ-नियमावलिषु एका अस्ति। अधुना आवश्यकता अस्ति यत् एषा प्रभावी-रूपेण भूमौ कार्यान्विता भवेत्। तेन विश्वासः व्यक्तः यत् अग्रिम-द्वि-त्रि-वर्षेषु झारखण्डस्य पेसा-व्यवस्था राष्ट्रिय-आदर्शरूपेण प्रतिष्ठापिता भविष्यति।
पञ्चायती-राज-विभागस्य सचिवः मनोज-कुमारः अवदत् यत् विभागः नियमावल्याः स्थानीय-भाषासु उपलब्धतां सुनिश्चितुं प्रयतते, येन ग्रामेषु तस्याः सूचना सुलभतया प्राप्येत। सहैव व्यापक-प्रशिक्षण-कार्यक्रमाः तथा जन-जागरण-अभियानाः अपि प्रचलन्ति, येन पञ्चायत-प्रतिनिधयः ग्रामीणाश्च नियमावल्याः सम्यक् बोधं प्राप्नुयुः।
विभागस्य निदेशिका राजेश्वरी-बी अवदत् यत् नियमावल्याः निर्माणात् पूर्वं व्यापक-स्तरे आपत्तयः सुझावाश्च आमन्त्रिताः आसन्, अग्रेऽपि तेषां स्वागतं भविष्यति, येन नियमावली अधिकं प्रभावी भवेत्।
अस्मिन् कार्यक्रमे मन्त्री दीपिका-पाण्डेय-सिंह:, सचिवः मनोज-कुमारः, निदेशिका राजेश्वरी-बी, विविध-विभागानां अधिकारिणः तथा सामाजिक-सङ्घटनानां प्रतिनिधयः बहुसंख्यया उपस्थिताः आसन्। सर्वैः पेसा-नियमावल्याः स्थलीय-स्तरे सफल-क्रियान्वयनाय सामूहिक-प्रयत्नस्य संकल्पः कृतः।
हिन्दुस्थान समाचार / अंशु गुप्ता