Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ अप्रैलमासः (हि.स.)। दिल्ली-विश्वविद्यालयस्य इन्द्रप्रस्थ-महिला-महाविद्यालयस्य वार्षिक-पुरस्कार-समारोहः ‘समन्वय २०२६’ उत्साहेन गौरवेण च सम्पन्नः। अयं कार्यक्रमः महाविद्यालयस्य प्रतिभानां उपलब्धीनां उत्कृष्टतायाः च उत्सवः आसीत्, यस्मिन् छात्राः, अध्यापकाः, अभिभावकाः तथा विशिष्टातिथयः सहभागीभूताः।
अस्मिन् कार्यक्रमे मुख्यातिथि-रूपेण दिल्ली-उपराज्यपालः तरणजीत-सिंह-सन्धू उपस्थितः आसीत्। तेन स्वीय-संबोधने महाविद्यालयस्य समृद्ध-परम्परायाः प्रशंसा कृता तथा उक्तं यत् अयं संस्थानः निरन्तरं तादृशान् यून: निर्माति, ये समाजस्य विविध-क्षेत्रेषु सार्थकं योगदानं कुर्वन्ति।
तेन प्रधानमन्त्री-नरेन्द्र-मोदी-महाभागस्य महिला-सशक्तीकरण-शिक्षा-दृष्टिकोणस्य उल्लेखं कृत्वा छात्राभ्यः परिवर्तमाने जगति “क्रिटिकल-थिंकिंग्” तथा नवाचारस्य दिशि अग्रे गन्तुं प्रेरणा दत्ता। सहैव कृत्रिम-बुद्धिमत्ता (एआई) इत्यस्य वर्धमान-भूमिका तथा भविष्ये तस्य प्रभावः अपि प्रतिपादितः।
अस्मिन् अवसरे विश्वविद्यालयस्य ‘डीन-ऑफ-कॉलेजेज्’ प्रो.बलराम-पाणी अपि उपस्थितः आसीत्। कार्यक्रमस्य अध्यक्षता महाविद्यालयस्य प्राचार्या प्रो.पूनम-कुमरिया अकुर्वत्। तया स्वीय-संबोधने संस्थानस्य दृढ-शैक्षणिक-परम्परा, राष्ट्रीय-शिक्षा-नीति-२०२० अन्तर्गतं क्रियमाणाः नवाचाराः तथा विविध-सहकार्याणां विषये विस्तरेण प्रकाशः दत्तः। तया परिसरस्य स्थायित्वं, छात्र-कल्याणम्, मानसिक-स्वास्थ्य-कार्यक्रमाः तथा समावेशी-शिक्षा-प्रोत्साहनस्य प्रयासाः अपि निर्दिष्टाः।
समारोहस्य प्रमुख-आकर्षणं महाविद्यालयस्य नूतन-आधिकारिक-जालपुटस्य (वेबसाइट्) शुभारम्भः आसीत्, यत् शैक्षणिक-प्रशासनिक-प्रक्रियाणां सरलीकरणाय निर्मितम्।
कार्यक्रमे ‘इनेबलिङ्ग-यूनिट्’ इत्यस्य छात्राभि: सहितं कुलं त्रिसप्ततिः (७३) विद्यार्थिन्यः शैक्षणिक-सह-पाठ्यक्रम-क्षेत्रयोः उत्कृष्ट-प्रदर्शनाय सम्मानिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता