Enter your Email Address to subscribe to our newsletters

कोलकाता-नगरम्, २९ अप्रैलमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचनस्य द्वितीय-अन्तिम-चरणस्य मतदानं बुधवासरे प्रातःकाले आरब्धमात्रे एव राजनैतिक-चेष्टाः तीव्राः अभवन्। मतदान-दिने एव प्रातःकाले कोलकाता-नगरस्य मार्गेषु असामान्या उच्च-उत्साहयुक्ता स्थिति: दृष्टा।
द्वितीय-चरणस्य अत्यन्त-चर्चितासने भवानीपुर-आसने मुख्यमन्त्री ममता बनर्जी तथा विधानसभायाः विपक्ष-नेता शुभेंदु: अधिकारी आमने-सामने स्थितौ स्तः। अस्या: उच्च-स्तरीय-स्पर्धायाः मध्ये उभौ अपि नेतारौ प्रातःकाले एव मार्गेषु अवतीर्य सक्रियतां दर्शितवन्तौ।
प्रातःकालात् एव भवानीपुर-आसने मतदातॄणां दीर्घाः पङ्क्तयः दृश्यन्ते। दृढ-सुरक्षा-व्यवस्थायाः मध्ये मतदानं प्रवर्तते। केन्द्रीय-सैन्यबलानां नियुक्त्या, मतदान-केन्द्राणां बहिः सतर्कतया च प्रशासनं समस्यां न ग्रहीतुं इच्छति।
मुख्यमन्त्रिणा ममता बनर्जी एतदपि आरोपितं यत् मतदानात् पूर्वरात्रौ तृणमूल-काङ्ग्रेस-पक्षस्य ध्वजाः अपसारिताः, क्षेत्रे बाह्य-जनानां उपस्थितिः अपि वर्धिता। तया पक्ष-कार्यकर्तॄणां समर्थकानां च उपरि दबावः कार्यवाहिः च क्रियमाणा इति आरोपः कृतः। सा उक्तवती— “अस्माकं कार्यकर्तारः अपह्रियन्ते, वयं सम्पूर्णां रात्रिं न सुप्तवन्तः” इति।
अन्यतः शुभेंदु: अधिकारी अपि प्रातःकालात् एव क्षेत्रे सक्रियः आसीत्। तेन दिवसस्य आरम्भः हनुमान-मन्दिरे पूजा-अर्चनया कृतः, ततः विविध-मतदान-केन्द्राणां निरीक्षणं आरब्धम्। भवानीपुरस्य विविधेषु क्षेत्रेषु गत्वा तेन कार्यकर्तॄणां मनोबलं वर्धितं, मतदान-प्रक्रियायाः अपि निरीक्षणं कृतम्।
उभयोः शीर्ष-नेतयोः सक्रियता भवानीपुर-आसनस्य स्पर्धां अधिकं रोचकं कृतवती। राजनैतिक-विश्लेषकाणां मते एषा केवलं विधानसभाया: एकस्य आसनस्य स्पर्धा नास्ति, अपि तु प्रतिष्ठायाः युद्धरूपेण परिवर्तिता अस्ति। २०२१-वर्षस्य नन्दीग्राम-आसनस्य सदृशं, अस्मिन् अपि काले कोलकाता-नगरे राजनैतिक-चिन्ता दृश्यते।
केवलं भवानीपुर-आसनमेव न, अस्मिन् चरणे राज्यस्य १४२ आसनेषु मतदानं प्रवर्तते। कोलकाता, हावड़ा, हुगली, उत्तर-चतुर्विंशतिपरगणा, दक्षिण-चतुर्विंशतिपरगणा तथा नदिया-जनपदेषु विस्तीर्णेषु क्षेत्रेषु अस्मिन् चरणे ६६ प्रमुख-अभ्यर्थिन: प्रतिस्पर्धायां सन्ति। अनुभवी-मन्त्रिभ्यः आरभ्य नूतन-प्रत्याशिभ्यः यावत्, सर्वेषां मध्ये बहुस्तरीया स्पर्धा दृश्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता