Enter your Email Address to subscribe to our newsletters


- उप मुख्यमंत्री अकरोत् जल प्रदाय योजनायाः एवं सीवरेज सिस्टम कार्याणां च समीक्षाम्
भोपालम्, 29 अप्रैलमासः (हि.स.) ।राजेन्द्र शुक्लेन बुधवासरे भोपाल-स्थिते मन्त्रालये रीवा-नगरे प्रवर्तमाना जल-प्रदाय-योजना तथा सीवरेज-प्रणाल्या सम्बन्धितानां कार्याणां विस्तृता समीक्षा कृता। तेन कार्यप्रगतेः, गुणवत्तायाः, समयसीमायाः वित्तीय-प्रावधानानां च विषये विस्तारतः चर्चा कृत्वा आवश्यकनिर्देशाः प्रदत्ताः।
उपमुख्यमन्त्री शुक्लः उक्तवान् यत् सर्वाणि निर्माणकार्याणि निर्धारित-समयसीमायां पूर्णानि कर्तव्यानि, येन सामान्यजनाः समये सुविधालाभं प्राप्नुयुः। अस्मिन् उपवेशने संजय दुबे (अपर-मुख्यसचिवः नगरीय-विकास-आवास-विभागः), संकेत भोंडवे च अन्ये विभागीय-अधिकारी उपस्थिताः आसन्।
तेन निर्देशितं यत् जल-प्रदाय-व्यवस्थायाः शेषकार्याणि, विशेषतः उच्च-जलटङ्क-निर्माणं तथा जल-वितरण-जालस्य विस्तारः, आगामि-वर्षा-ऋतोः पूर्वं सर्वथा पूर्णं क्रियताम्। कार्याणां नियमित-पर्यवेक्षणेन समयबद्ध-क्रियान्वयनं सुनिश्चितं करणीयम् इति अपि उक्तम्। निर्माणकार्येषु नागरिकानां दैनन्दिन-जीवनं न बाध्येत इति हेतोः कार्याणि सुनियोजित-चरणबद्ध-रीत्या क्रियन्ताम् इति निर्देशः अपि दत्तः। सामान्यजनानां सुविधा सुरक्षा च सर्वोच्च-प्राथमिकतया ग्राह्ये इति तेन विशेषतः उक्तम्।
सीवरेज-प्रणाल्याः समीक्षां कुर्वन् तेन अवशिष्ट-नलिकाप्रतिष्ठापन-कार्याणि गृह-सेवा-संयोजनानि च शीघ्रं प्राथमिकतया पूर्णानि कर्तुं निर्देशः दत्तः। तेन उक्तं यत् सीवरेज-जालस्य समये पूर्णता नगरीय-स्वच्छता-स्वास्थ्ययोः कृते अत्यावश्यकम् अस्ति, अतः अस्मिन् विषये काचिदपि विलम्बना न भवेत्। एसटीपी-निर्माण-कार्यं अपि शीघ्रं सम्पन्नं कर्तुं आवश्यक-कार्यवाही कर्तव्या इति तेन निर्दिष्टम्।
हिन्दुस्थान समाचार