Enter your Email Address to subscribe to our newsletters

- वर्षा जलस्य संचयनेन जल स्तरे भविष्यति वृद्धिः
भोपालम्, 29 अप्रैलमासः (हि.स.) ।मोहन यादवस्य नेतृत्वे मध्य प्रदेश-राज्ये दीर्घदर्शिना चिन्तया जलसंरक्षण-संवर्धनार्थं “जल-गंगा-संवर्धन-अभियानम्” प्रचलति। अस्मिन् अभियाने जनभागीदारीद्वारा एतत् जनान्दोलनरूपेण परिवर्तितम् अस्ति। जलसंरक्षण-संवर्धनं तथा जलविषये जनमानसे जागरूकतावृद्ध्यर्थं एषः अभियानः शहडोल जिला-प्रदेशे प्रगतिपथि अस्ति। अस्याः प्रक्रियायां प्राचीन-जलस्रोतांसि पुनर्जीवनं प्राप्नुवन्ति।
केदार सिंह (जिलाधीशः) तथा शिवम प्रजापति (जिला-पञ्चायत-कार्यपालन-अधिकारी) इत्ययोः निर्देशानुसारं शहडोल-जिलस्य सर्वासु ग्राम-पञ्चायतासु नगरीय-निकायेषु च अभियानान्तर्गतं प्राचीन-तालाबानां शोधनकार्यं, जलस्रोतसां जीर्णोद्धारः, शोषक-कूप-निर्माणम्, वर्षाजल-संग्रहण-कार्याणि च क्रियन्ते।
जनसंपर्क-अधिकारी आर.आर. पटेल इत्यनेन उक्तं यत् अस्मिन् अभियाने जनप्रतिनिधिभिः, अधिकारिभिः, समाजसेविभिः, स्वैच्छिक-संस्थासदस्यैः जनसहयोगेन च विविधकार्याणि सम्पाद्यन्ते। ग्रामीण-विकास-विभागेन ५६१३ कार्याणि अनुमोदितानि, तेषु १००६ कार्याणि सम्पन्नानि, २८३४ कार्याणि प्रगतौ सन्ति।
अभियानस्य अन्तर्गतं ३२१७ क्षेत्र-तालाबाः अनुमोदिताः, तेषु ७२२ सम्पन्नाः, १९०२ प्रगतौ सन्ति। ब्यौहारी-जनपद-पञ्चायत्यां ३४७ तालाबाः स्वीकृताः, ८१ सम्पन्नाः, २६६ प्रगतौ सन्ति। बुढार-जनपदे ७६६ स्वीकृताः, ८८ सम्पन्नाः, ४९४ प्रगतौ सन्ति। गोहपारू-जनपदे ५९६ स्वीकृताः, २३६ सम्पन्नाः, २२४ प्रगतौ सन्ति। जयसिंहनगर-जनपदे ९२५ स्वीकृताः, २१८ सम्पन्नाः, ५३९ प्रगतौ सन्ति। सोहागपुर-जनपदे ४९३ स्वीकृताः, ९९ सम्पन्नाः, ३७९ प्रगतौ सन्ति।
जिले ६२० डगवेल-रिचार्जिङ्ग-कार्याणि आरब्धानि, तेषु २४१ सम्पन्नानि। “अमृत-सरोवर”-योजनायां ८ कार्याणि प्रगतौ सन्ति। जलसंसाधन-विभागेन ३२ कार्याणि स्वीकृतानि, तेषु ७ सम्पन्नानि। जलसंरक्षण-वर्षाजल-पुनर्भरण-कार्येषु १०४२ कार्याणि स्वीकृतानि, तेषु १०५ सम्पन्नानि, शेषाणि प्रगतौ सन्ति। वाटरशेड्-सम्बद्धेषु २२९ कार्येषु १९ सम्पन्नानि। जलसंरचनानां जीर्णोद्धारे १०५ कार्याणि सञ्चालितानि, तेषु ५३ सम्पन्नानि, ५६ प्रगतौ सन्ति।
अतिरिक्ततया नगरीय-निकायेन २५ जलग्रहण-संरचनाः, ८ नाल-शोधन-सौन्दर्यीकरण-कार्याणि, २६ वर्षाजल-संग्रहण-कार्याणि, ६१ जलमन्दिर-स्थापनानि, १३ वृक्षारोपण-कार्याणि सम्पन्नानि। उद्यानिकी-विभागेन २९ फल-वृक्षारोपण-कार्याणि, २२६ हेक्टेयर-क्षेत्रे सूक्ष्मसिञ्चन-विस्तारः, जलचौपाल-आयोजनं च कृतम्।
जन अभियान परिषद्-इत्यनेन ६४ जलस्रोत-शोधनानि, ५७१ जनजागरूकता-कार्यक्रमाः, ३१ कलशयात्राः, ८७ वृक्षपूजनानि, ८१ जलस्रोतपूजनानि, ४२ मानसपाठ-भजनसन्ध्याः, ५१ जलमन्दिर-स्थापनानि, १४ नदीतट-शोधन-गहनकरण-कार्याणि, ५३ कूप-बावडी-तालाब-शोधन-कार्याणि, ८ नदीषु सामूहिक-श्रमदानम्, १२ नदी-अनुभूति-कार्यक्रमाः, ४५ जलचौपालाः, ३९ नारा-लेखन-कार्याणि च कृतानि।
स्वास्थ्य-विभागेन, विद्यालय-शिक्षा-विभागेन, महिला-बाल-विकास-विभागेन अन्यैः विभागैः च निर्दिष्ट-लक्ष्यैः सह “जल-गंगा-संवर्धन-अभियानस्य” अन्तर्गतं विविधकार्याणि निरन्तरं क्रियन्ते।
हिन्दुस्थान समाचार