Enter your Email Address to subscribe to our newsletters

आसनसोलम्, 29 अप्रैलमासः (हि.स.)।पूर्व बर्धमान-जिलायाः षोडश-विधानसभा-आसन्दिषु मङ्गलवासरे प्रातः सप्तवादनात् मतदान-प्रक्रिया आरब्धा। पश्चिम बंगाल विधानसभा चुनाव 2026-निर्वाचनस्य द्वितीय-चरणे अस्मिन् जिलायाः कुलं ३७,७१,७५७ मतदातारः स्वमताधिकारं प्रयुञ्जते। तेषु १९,१५,११७ पुरुषाः, १८,५६,५९३ महिलाः, ४७ तृतीय-लिङ्ग-मतदातारश्च सन्ति। प्रातःकालात् एव विविधेषु मतदान-केन्द्रेषु मतदातॄणां दीर्घाः श्रेण्यः दृष्टाः। केषुचित् स्थानेषु तु ईवीएम-यन्त्र-दोषकारणात् मतदान-प्रक्रिया बाधिता, मतदातारः च कष्टम् अनुभूतवन्तः।
अत्र यासु षोडश-आसन्दिषु मतदानं प्रवर्तते, तासु कालना, मेमारी, कटवा, मङ्गलकोट, आउसग्राम, गुस्करा, भातार, बर्धमान-उत्तर, बर्धमान-दक्षिण, रैना, जमालपुर, खण्डघोष, गलसी, पाण्डवेश्वर-सीमावर्ती-प्रदेशस्य केचन भागाः, पूर्वस्थली-दक्षिण, पूर्वस्थली-उत्तर च अन्तर्भवन्ति। सर्वासु आसन्दिषु कठोर-सुरक्षा-व्यवस्था कृता अस्ति, प्रशासनं च निरन्तरं स्थितिं निरीक्षते।
प्रातः मतदानस्य आरम्भे एव बहुषु केन्द्रेषु तकनीकी-समस्याः दृष्टाः। गलसी-विधानसभा-प्रदेशस्य मतदान-केन्द्रे संख्या ६५ ईवीएम-यन्त्र-दोषात् मतदानं आरभितुं न शक्यते स्म, येन मतदातारः बहु क्लेशं अनुभूतवन्तः। तत्र स्थिताः जनाः अवदन् यत् ते प्रातः पञ्चवादनात् आरभ्य पङ्क्तौ स्थिताः, किन्तु दीर्घ-प्रतीक्षानन्तरम् अपि मतदानं न आरब्धम्। तैः अपि आरोपितं यत् केन्द्रस्य बहिः उपवेशन-व्यवस्था न आसीत्, येन ते उष्णतायां दीर्घकालं तिष्ठितवन्तः।
एवमेव बर्धमान-दक्षिण-विधानसभा-प्रदेशस्य केन्द्रे संख्या १४० अपि ईवीएम-दोषात् मतदानं बाधितम्। गलसी-विधानसभायाः भरतपुर-केन्द्रे संख्या ८८ अपि तकनीकी-दोषः सूचितः। तथापि प्रशासनं शीघ्रं क्रियाशीलं भूत्वा यन्त्र-संशोधनं कृत्वा मतदानं सामान्यीकर्तुं प्रयासं कृतवान्।
अन्यतः गलसी-विधानसभा-प्रदेशस्य बुदबुद-आदर्श-केन्द्रे संख्या १३० तथा १३१ शान्तिपूर्वकं मतदानं प्रवर्तते स्म। अत्र मतदातारः सुव्यवस्थित-पङ्क्तिषु स्थित्वा स्वमताधिकारं प्रयुञ्जते स्म। अनेकेषु स्थानेषु प्रथमवारं मतदानं कुर्वन्तः युवा-मतदातारः विशेष-उत्साहेन दृष्टाः।
प्रशासनस्य कथनम्अस्ति यत् जिलायाः अधिकांश-केन्द्रेषु मतदानं शान्तिपूर्वकं प्रवर्तते, यत्र यत्र तकनीकी-समस्याः सञ्जाताः ताः शीघ्रमेव निराक्रियन्ते। भारत निर्वाचन आयोग तथा जिला-प्रशासनं निरन्तरं परिस्थितिं निरीक्षतः, यतः मतदातारः कस्यापि प्रकारस्य असुविधां न अनुभवेरन् तथा मतदान-प्रक्रिया निष्पक्ष-शान्तिपूर्ण-रूपेण सम्पन्ना भवेत्।
---------------
हिन्दुस्थान समाचार