Enter your Email Address to subscribe to our newsletters

हरिद्वार-नगरम्, २९ अप्रैलमासः (हि.स.)। उत्तराखण्डे प्रचलन्त्यां चतुर्धाम-यात्रायां व्यवस्थाः प्रति शासनं पूर्णतः सक्रियं दृश्यते। अस्याः एव परम्परायाः अन्तर्गतं जनपद-प्रभारी तथा पर्यटन-मन्त्री सतपाल-महाराजः बुधवासरे हरिद्वार-नगरस्थिते ऋषिकुल-प्रांगणे निर्मिते यात्री-पञ्जीकरण-केंद्रे निरीक्षणं कृत्वा तत्र उपलब्धानां सुविधानां सम्यक् अवलोकनं कृतवान्।
निरीक्षणावसरे मन्त्री अधिकारीन् प्रति स्पष्टान् निर्देशान् दत्तवान् यत् चतुर्धाम-यात्रायां आगच्छतां श्रद्धालूनां कृते सर्वाः मूलभूत-सुविधाः सम्यक् रूपेण सुनिश्चिताः स्युः, तथा कस्यापि प्रकारस्य उपेक्षा न कर्तव्या। पञ्जीकरण-केंद्रे कार्यरताः सर्वे कर्मचारिणः तीर्थयात्रिभिः सह सौम्यं व्यवहारं कुर्वन्तु तथा “अतिथि-देवो भव” इति परम्परां पालयित्वा तेषां स्वागतं कुर्वन्तु। मन्त्री पुनः उक्तवान् यत् राज्य-सर्वकारः चतुर्धाम-यात्रां सुगमां, सुव्यवस्थितां च सुरक्षितां कर्तुं पूर्णतः प्रतिबद्धा अस्ति, तदर्थं च व्यापकाः प्रबन्धाः कृताः सन्ति।
यात्रासम्बद्धानां विवरणानां विषये सः अवदत् यत् अद्यावधि आहत्य ४,०७,९६१ श्रद्धालवः चतुर्धाम-तीर्थदर्शनं कृतवन्तः। तेषु—यमुनोत्री-धाम : ५७,७०४ यात्रिणःगङ्गोत्री-धाम : ५७,८६३ यात्रिणःकेदारनाथ-धाम : २,०७,४५२ यात्रिणःबद्रीनाथ-धाम : ८४,९४२ यात्रिणः च अन्तर्भवन्ति।
तथा च अद्यावधि २४,६८,१३२ तीर्थयात्रिभिः चतुर्धाम-यात्रायै अन्तर्जाल तथा ऑफलाइन-पञ्जीकरणं कृतम् अस्ति।
मन्त्री प्रार्थितवान् यत् चतुर्धाम-यात्रायां आगच्छतां सर्वेषां श्रद्धालूनां यात्रा मंगलमयी भवतु तथा तेषां सर्वाः मनोकामनाः पूर्णाः भवन्तु इति। निरीक्षणकाले जनपद-पञ्चायत-अध्यक्षः किरण-चौधरी, भाजपा-जिला-अध्यक्षः आशुतोष-शर्मा, जनपद-पर्यटन-अधिकारी सुशील-नौटियालः तथा अन्ये अधिकारिणः कर्मचारिणः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता