विश्व-ताइक्वान-चैम्पियनशिप-मध्ये चेऱा लाई इति क्रीडिकया रजतपदकं प्राप्तम्
इटानगरम्, ३० अप्रैलमासः (हि.स.)। भारतस्य प्रतिनिधित्वं कुर्वती अरुणाचलप्रदेशस्य क्रीडिका चेऱा लोकु इत्येषा बुल्गारियादेशस्य बुर्गास-नगरे आयोजिते पञ्चमे विश्व-ताइक्वान-चैम्पियनशिपमध्ये रजतपदकं प्राप्तवती। एषा प्रतियोगिता २५ तः ३० अप्रैलपर्यन्तं आयो
विश्व-ताइक्वान-चैम्पियनशिप-मध्ये चेऱा लाई इति क्रीडिकया रजतपदकं प्राप्तम्


इटानगरम्, ३० अप्रैलमासः (हि.स.)। भारतस्य प्रतिनिधित्वं कुर्वती अरुणाचलप्रदेशस्य क्रीडिका चेऱा लोकु इत्येषा बुल्गारियादेशस्य बुर्गास-नगरे आयोजिते पञ्चमे विश्व-ताइक्वान-चैम्पियनशिपमध्ये रजतपदकं प्राप्तवती।

एषा प्रतियोगिता २५ तः ३० अप्रैलपर्यन्तं आयोजिता आसीत्। तस्मिन्नेव स्पर्धायां तस्याः सहक्रीडिका मेपुङ्-लाम्गु अपि सम्मानजनकं पञ्चमं स्थानं प्राप्तवती।

अरुणाचलप्रदेश-राज्यस्य ऑल अरुणाचल प्रदेश वुशु एसोसिएशन इत्यनेन उक्तं यत् ३८ देशानां श्रेष्ठ-क्रीडकानां मध्ये स्पर्धां कुर्वन्त्यौ तयोः सफलता असाधारण-समर्पणस्य, अनुशासनस्य, अदम्य-भावनायाश्च प्रमाणं वर्तते।

संस्थाया: महासचिवः जॉन तारा बेकी इत्यनेन उक्तं यत् सांगाय-ल्हाडेन स्पोर्ट्स-अकादमीतः विश्वपदकविजेत्रीपर्यन्तं चेऱा लोकु इत्यस्याः यात्रा दृढता-लग्न-परिश्रमाणां सत्यं उदाहरणम् अस्ति। तस्याः उपलब्धिः केवलं व्यक्तिगतं न, अपि तु राज्यस्य राष्ट्रस्य च असंख्य-युव-क्रीडकानां प्रेरणास्रोतः अस्ति।

तथैव मेपुङ्-लाम्गु इत्यस्याः प्रदर्शनमपि प्रशंसनीयम्, या पञ्चमं स्थानं प्राप्तवती तथा अन्तरराष्ट्रीयस्तरे भारतस्य क्रीडाशक्तिं प्रदर्शितवती।

संस्थया शिक्षकः मैबम् प्रेमचन्द्रसिंहः अपि प्रशंसितः, यस्य मार्गदर्शनेन भारतीय-दलेन अनेकानि पदकानि प्राप्तानि तथा देशस्य गौरवं वर्धितम्।

हिन्दुस्थान समाचार / Dheeraj Maithani