प्रयास विद्यालयानां विद्यार्थिनां सीजी बोर्ड परीक्षासु उत्कृष्ट प्रदर्शनम्
रायपुरम् ,30 अप्रैलमासः (हि.स.)। छत्तीसगढराज्यस्य आदिमजाति-अनुसूचितजाति-अन्यपृष्टवर्ग-अल्पसंख्यकविकासविभागेन सञ्चालितानि “प्रयास” आवासीयविद्यालयानि अस्मिन् वर्षे माध्यमिकशिक्षामण्डलस्य दशमी-द्वादशी परीक्षासु अभूतपूर्वां सफलतां प्राप्तवन्ति। एतेषा
प्रमुख सचिव सोनमणि बोरा


रायपुरम् ,30 अप्रैलमासः (हि.स.)।

छत्तीसगढराज्यस्य आदिमजाति-अनुसूचितजाति-अन्यपृष्टवर्ग-अल्पसंख्यकविकासविभागेन सञ्चालितानि “प्रयास” आवासीयविद्यालयानि अस्मिन् वर्षे माध्यमिकशिक्षामण्डलस्य दशमी-द्वादशी परीक्षासु अभूतपूर्वां सफलतां प्राप्तवन्ति। एतेषां विद्यालयानां छात्राः उत्कृष्टफलप्रदर्शनेन बृहन्निजीविद्यालयान् अपि स्पर्धितवन्तः। एतेषु विद्यालयेषु त्रयोदश छात्राः शीर्षदशसूच्यां स्थानं प्राप्तवन्तः।

उल्लेखनीयं यत् राज्यसरकारेण सप्तदश प्रयास-आवासीयविद्यालयानि सञ्चालितानि सन्ति, यत्र नक्सलप्रभावितप्रदेशेभ्यः आगताः सर्ववर्गीयाः छात्राः अध्ययनं कुर्वन्ति। अत्र छात्रेभ्यः निःशुल्कशिक्षा प्रदीयते, तथा च उच्चस्तरीयप्रशिक्षणेन चिकित्साविज्ञान-अभियान्त्रिकी-प्रवेशपरीक्षादिषु अपि तयारी क्रियते।

एतस्याः सफलतायाः कृते मुख्यमन्त्री विष्णुदेवसायः, आदिमजातिविकासमन्त्री रामविचारनेतमः, अनुसूचितजातिविकासमन्त्री गुरुखुशवन्तसाहेबः, पिछडावर्ग-अल्पसंख्यककल्याणमन्त्री श्यामबिहारीजायसवालः तथा प्रमुखसचिवः सोनमणिबोरः इत्यादयः छात्रान्, अधिकारीन्, कर्मचारिणश्च अभिनन्दितवन्तः।

मुख्यमन्त्री विष्णुदेवसायः एतस्यां उपलब्धौ हर्षं व्यक्तवान्, उक्तवान् च यत् एषा सफलता प्रयासविद्यालयानां संकल्पनायाः सिद्धिं दर्शयति। रामविचारनेतमः गुणवत्तायुक्तशिक्षायाः कृते कृतानां सततप्रयत्नानां प्रशंसां कृतवान्।

प्रमुखसचिवः सोनमणिबोरः अवदत् यत् सीमितसाधनानामपि मध्ये छात्रैः उत्कृष्टप्रदर्शनं कृतम्। एषा उपलब्धिः दर्शयति यत् यदा उचितदिशा, समर्पणं, अवसरश्च लभ्यते, तदा प्रतिभा सर्वाः बाधाः अतिक्रामति।

द्वादशीपरीक्षायां शताधिकाः छात्राः प्रथमश्रेण्यां उत्तीर्णाः अभवन्। रायपुरस्थिते प्रयासविद्यालये अनेकाः छात्राः नवत्यधिकं प्रतिशतं प्राप्तवन्तः। कोरबाजनपदस्य छात्रा रागिनी कंवर पंचनवतिप्रतिशतं प्राप्तवती। जीवविज्ञानविषये द्वाभ्यां छात्राभ्यां पूर्णाङ्काः प्राप्ताः—एषा विशेषसिद्धिः अस्ति।

दशमीपरीक्षायामपि उत्कृष्टप्रदर्शनम् अभवत्। अनेकाः छात्राः नवत्यधिकं प्रतिशतं प्राप्तवन्तः। गणितविषये केचन छात्राः शतप्रतिशताङ्कान् प्राप्तवन्तः। छात्रा दीपांशी अष्टनवतिप्रतिशताधिकं प्राप्त्वा राज्ये द्वितीयस्थानं प्राप्तवती।

अनुसूचितजातिवर्गस्य छात्राः अपि उच्चाङ्कैः शीर्षसूच्यां स्थानं प्राप्तवन्तः। प्रावीण्यसूच्यां बहवः छात्राः एकलव्य-प्रयासविद्यालययोः अन्तर्गताः सन्ति, यत् विभागस्य सफलतां स्पष्टं दर्शयति।

एषा उपलब्धिः राज्यस्य गौरववर्धिनी अस्ति तथा अन्येषां छात्राणां कृते प्रेरणास्रोतः भविष्यति।

हिन्दुस्थान समाचार