मुख्यमन्त्रिणा सरमा-महाभागेन सांसदः प्रदान-बरुवा इत्यस्मै जन्मदिनस्य शुभकामनाः दत्ताः
गुवाहाटीनगरम्, ३० अप्रैलमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा सांसदः प्रदान-बरुवा इत्यस्मै जन्मदिने हार्दिकाः शुभकामनाः प्रेषितवान्। मुख्यमन्त्री स्वस्य सामाजिक-माध्यम-सन्देशे अवदत् यत् सांसदः बरुवा जनकल्याणाय निरन्तरं परिश्
सांसद प्रदान बरुवा को मुख्यमंत्री डॉ हिमंत बिस्व सरमा सरमा जन्मदिन शुभकामनाएं देते हुए।


गुवाहाटीनगरम्, ३० अप्रैलमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा सांसदः प्रदान-बरुवा इत्यस्मै जन्मदिने हार्दिकाः शुभकामनाः प्रेषितवान्।

मुख्यमन्त्री स्वस्य सामाजिक-माध्यम-सन्देशे अवदत् यत् सांसदः बरुवा जनकल्याणाय निरन्तरं परिश्रमं कुर्वन् अस्ति तथा च दलस्य सुदृढीकरणे अपि महत्त्वपूर्णं योगदानं ददाति।

सः कामनां कृतवान् यत् माँ-कामाख्यादेव्या: तथा श्रीमन्त-शङ्करदेवस्य आशीर्वादेन तस्य उत्तमं स्वास्थ्यं दीर्घायुष्यम् च भवेत्।

हिन्दुस्थान समाचार / Dheeraj Maithani