Enter your Email Address to subscribe to our newsletters



भोपाल-नगरम्, ३० अप्रैलमासः (हि.स.)। मध्य-प्रदेश-राज्यस्य मुख्यमन्त्री डॉ.मोहन-यादवः गुरुवासरे खरगोन-जनपदे मण्डलेश्वर-तहसीलस्य कतरग्रामे स्थितस्य गोधूम-उपार्जन-केन्द्रस्य आकस्मिक-निरीक्षणं कृतवान्। अस्मिन् अवसरे तेन उपार्जन-व्यवस्थानां अवलोकनम् कृतम्।
मुख्यमन्त्री सम्बद्ध-अधिकारीन् निर्देशितवान् यत् गोधूम-उपार्जनसम्बद्धाः सर्वे शासन-निर्देशाः कठोरतया पालनीयाः। अन्नदातृभ्यः कस्यापि प्रकारस्य समस्या न भवेत् इति सुनिश्चितं कर्तव्यम्। मुख्यमन्त्री डॉ.यादवः उक्तवान् यत् सः स्वयम् अपि आकस्मिक-प्रवासं कृत्वा व्यवस्थाः निरीक्षिष्यति।
उल्लेखनीयम् अस्ति यत् डॉ.यादवः बुधवासरे रात्रौ महेश्वर-नगरे विश्रामं कृतवान्। प्रातःकाले सः कतरग्रामस्य गोधूम-उपार्जन-केन्द्रं निरीक्षितवान् तथा कृषकैः पशुपालकैः च सह संवादं कृत्वा तैः सह चायम् अपिबत्। तेन अत्र स्लॉट-बुकिंग-व्यवस्था, उपार्जनस्य अन्याः व्यवस्थाः, तथा कृषकाणां कृते ओटीपी-माध्यमेन क्रियमाणस्य भुगतान-इत्यस्य विषये सूचना प्राप्ता। कृषकैः सह संवादं कृत्वा तेषां प्रतिपुष्टिः (फीडबैक) अपि गृहीता।
मुख्यमन्त्री आगच्छद्भ्यः कृषकेभ्यः पेयजल-छायादि-सुविधानां वृद्धये निर्देशान् दत्तवान्। तेन उक्तं यत् प्रत्येकस्य अन्नदातुः सम्मानम्, सुविधा, उपजस्य उचित-मूल्य-प्रदानं च राज्य-सर्वकारस्य सर्वोच्च-प्राथमिकता अस्ति। मुख्यमन्त्री डॉ.यादवः केन्द्रे कृषकेन पशुपालकेन च भगीरथ-मालवीयेन अन्यैः कृषकैः सह आत्मीयं संवादं कृतवान्। तेन तैः सह कृषि-सम्बद्ध-विषयेषु, पशुपालन-डेयरी-विकासयोः, तथा तेषां परिवार-विषये अपि सूचना गृहीता।
हिन्दुस्थान समाचार / अंशु गुप्ता