विभागीय अधिकारी निर्माणसंस्था परस्परसमन्वयेन समय-सीम्नि पूर्णं कुर्यात् कार्यम् - उप मुख्यमंत्री शुक्लः
- उप मुख्यमंत्री अकरोत् स्वास्थ्य अधोसंरचना विकास कार्याणां समीक्षाम् भोपालम्, 30 अप्रैलमासः (हि.स.) ।मध्यप्रदेशराज्यस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः भोपालस्थिते मन्त्रालये लोकस्वास्थ्यचिकित्साशिक्षाविभागस्य अधीनं प्रदेशे सञ्चालितानां विविधाधोस
स्वास्थ्य अधोसंरचना विकास कार्यों की समीक्षा करते हुए उप मुख्यमंत्री राजेन्द्र शुक्ल


- उप मुख्यमंत्री अकरोत् स्वास्थ्य अधोसंरचना विकास कार्याणां समीक्षाम्

भोपालम्, 30 अप्रैलमासः (हि.स.) ।मध्यप्रदेशराज्यस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः भोपालस्थिते मन्त्रालये लोकस्वास्थ्यचिकित्साशिक्षाविभागस्य अधीनं प्रदेशे सञ्चालितानां विविधाधोसंरचनाविकासकार्याणां विस्तृतसमीक्षां कृतवान्। तेन विभागीयाधिकारिणः निर्माणसंस्थाः च निर्देशिताः यत् कार्येषु उत्तमः समन्वयः स्थाप्य समयसीमायां कार्याणि सम्पूर्णानि क्रियन्ताम्।

उपमुख्यमन्त्री शुक्ल उक्तवान् यत् निर्माणसंस्थाभ्यः आवश्यकः सहयोगः प्रदेयः। सः अवदत् यत् प्रदेशे स्वास्थ्यसेवानां सुदृढीकरणाय अधोसंरचनाविकासकार्याणि अत्यन्तं महत्त्वपूर्णानि सन्ति। तेन निर्देशः दत्तः यत् निर्माणकार्येषु गुणवत्तायाः विशेषः ध्यानः क्रियताम्। सर्वासां परियोजनानां नियमितसततनिरीक्षणं सुनिश्चितं कर्तुं अपि सः आदेशं दत्तवान्। अस्मिन् उपवेशने विविधपरियोजनानां वर्तमानस्थितिः प्रगतिः चुनौतयः तेषां समाधानानि च विस्तरेण चर्चितानि।

उपमुख्यमन्त्री शुक्ल इन्दौरस्थितस्य मेडिकलकॉलेजस्य सुदृढीकरणउन्नयनकार्याणां समीक्षां कृत्वा अधिकारिभ्यः आवश्यकाः दिशानिर्देशाः दत्तवान्। तथैव सः पन्ना सतना तथा सीधी जिलाचिकित्सालयेषु सञ्चालितकार्याणां प्रगतिं अपि अवलोक्य सम्बन्धिताधिकारिणः कार्येषु तीव्रतां कर्तुं निर्देशितवान्।

तेन बुधनी मण्डला तथा छतरपुर मेडिकलकॉलेजेषु आवश्यकफर्निचरउपलब्धतां सुनिश्चितुं निविदाप्रक्रियायाः समयबद्धसमापनाय आदेशः दत्तः। उपमुख्यमन्त्री उक्तवान् यत् सर्वेषामावश्यकसंसाधनानां समये उपलब्ध्या स्वास्थ्यसंस्थासु उत्तमानि सुविधानि सुनिश्चितानि भविष्यन्ति तथा तेषां संचालनं समयसीमायामारभ्यते।

अस्मिन् उपवेशने लोकस्वास्थ्यचिकित्साशिक्षाविभागस्य आयुक्तः धनराजू एस् एमपीबीडीसी संस्थायाः प्रबन्धनिदेशकः तथा निर्माणसंस्थाः वरिष्ठाधिकारिणः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार