राज्यपालो बुद्ध पूर्णिमायाः अवसरेऽददात् शुभकामनाः
रायपुरम्, 30 अप्रैलमासः (हि.स.)। राज्यपालः रमेनडेका बुद्धपूर्णिमायाः अवसरे प्रदेशस्य नागरिकेभ्यः अभिनन्दनं शुभाशंसाश्च प्रदत्तवान्। राज्यपालः स्वसन्देशे उक्तवान् यत् गौतमबौद्धः प्रेमकरुणाअहिंसाभावान् सर्वोपरि मन्यमानः समग्राय विश्वाय नूतनां मार
राज्यपाल रमेन डेका


रायपुरम्, 30 अप्रैलमासः (हि.स.)।

राज्यपालः रमेनडेका बुद्धपूर्णिमायाः अवसरे प्रदेशस्य नागरिकेभ्यः अभिनन्दनं शुभाशंसाश्च प्रदत्तवान्।

राज्यपालः स्वसन्देशे उक्तवान् यत् गौतमबौद्धः प्रेमकरुणाअहिंसाभावान् सर्वोपरि मन्यमानः समग्राय विश्वाय नूतनां मार्गदर्शिकां प्रदर्शितवान्। सः उक्तवान् यत् अद्यापि बुद्धस्य शिक्षाः अत्यन्तं प्रासंगिकाः सन्ति। अस्मिन् काले आवश्यकता अस्ति यत् समाजे सामाजिकसौहार्दं बन्धुत्वं च स्थापयितुं तेषां आदर्शान् अनुसृत्य तेन निर्दिष्टे मार्गे गन्तव्यम्।

---------------

हिन्दुस्थान समाचार