(अद्यतनीकृतम्) अश्विनी वैष्णवो जम्मू-कश्मीर रेलसंपर्कस्य भविष्योन्मुखिनो विस्तारस्य रूपरेखां प्रास्तौत्
जम्मूः, 30 अप्रैलमासः (हि.स.)। रेलमन्त्री अश्विनी वैष्णवः गुरुवासरे जम्मूकश्मीरप्रदेशस्य रेलजालस्य भविष्योन्मुखविस्तारस्य रूपरेखाम् अपि प्रस्तुतवान्। अस्याम् रूपरेखायाम् उच्चप्रौद्योगिकीयुक्तसंकेतप्रणाली सीमावर्तिनगरयोः उरी तथा पुंछ पर्यन्तं विस्
(अद्यतनीकृतम्) अश्विनी वैष्णवो जम्मू-कश्मीर रेलसंपर्कस्य भविष्योन्मुखिनो विस्तारस्य रूपरेखां प्रास्तौत्


जम्मूः, 30 अप्रैलमासः (हि.स.)।

रेलमन्त्री अश्विनी वैष्णवः गुरुवासरे जम्मूकश्मीरप्रदेशस्य रेलजालस्य भविष्योन्मुखविस्तारस्य रूपरेखाम् अपि प्रस्तुतवान्। अस्याम् रूपरेखायाम् उच्चप्रौद्योगिकीयुक्तसंकेतप्रणाली सीमावर्तिनगरयोः उरी तथा पुंछ पर्यन्तं विस्तारः तथा क्षेत्रस्य प्रसिद्धसेबोद्यानानां संरक्षणे दृढप्रतिबद्धता इत्यादिषु विशेषबलं दत्तम्।

जम्मूनगरात् कट्रानगरपर्यन्तं विस्तारितायाः वन्देभारतएक्स्प्रेस् रेलयानस्य शुभारम्भावसरे पत्रकारैः सह संवादं कुर्वन् सः उक्तवान् यत् यात्रिकाणां महत्याः अपेक्षया जम्मूश्रीनगरमार्गे विंशतिडिब्बयुक्ता वन्देभारतसेवा आरब्धा अस्ति। प्रारम्भे कट्रानगरात् अष्टडिब्बयुक्तया रेलयानया सञ्चालितः अयं सेवाप्रकारः अधुना जम्मूस्थानके आधारभूतसंरचनायाः उन्नयनात् तथा निरन्तरं पूर्णक्षमतया संचालनात् विस्तारितः अतः अधिकक्षमतायुक्ता रेलयानसेवा प्रवर्तिता।

तेन उक्तं यत् अद्यपर्यन्तं प्रायः पञ्चपञ्चाशल्लक्षयात्रिकाः अष्टडिब्बयुक्तया वन्देभारतसेवया यात्रा कृतवन्तः यत् जनानां महानुत्साहं दर्शयति। सः अपि अवदत् यत् एषः नूतनः रेलसंयोगः स्थानीयस्वादानां प्रचारं कुर्वन् तथा आवश्यकवस्तूनां ताजउत्पादानां च परिवहने महत् परिवर्तनं जनयति। यात्रायां जम्मूप्रदेशात् गच्छतां यात्रिकाणां कृते डोगरीभोजनं दीयते तथा कश्मीरप्रदेशात् प्रस्थितायां रेलयानायां कश्मीरीभोजनम् उपलब्धम् अस्ति।

तेन उक्तं यत् अस्य रेलमार्गस्य कारणेन मालपरिवहने महत् परिवर्तनम् अभवत् येन वाहनानि द्विचक्रयानानि सिमेण्ट् इस्पात् लवणम् अन्यानि च द्रव्याणि सुलभतया सञ्चरन्ति। विशेषतया श्रीनगरघाट्याः देशस्य अन्येषु भागेषु प्रायः द्विकोटिकिलोग्रामपरिमाणे सेबफलस्य परिवहनं कृतम्। चेरीफलानि शुष्कफलानि च अपि अस्य परिवहनसंयोगस्य लाभं प्राप्नुवन्ति।

रेलमन्त्री पुनः उक्तवान् यत् भविष्ये विविधपरियोजनाभिः जम्मूश्रीनगररेलरेखायाः क्षमतावृद्धौ विशेषध्यानं दत्तम्। अस्मिन् स्वचालितसंकेतप्रणालीप्रवर्तनम् अपि अन्तर्भवति येन एकस्मिन् खण्डे बहवः रेलयानाः एकस्मिन् काले संचालितुं शक्यन्ते। तेन उक्तं यत् बारामुलानगरात् उरीनगरपर्यन्तं रेलरेखायाः विस्तारः अपि योजनायाम् अस्ति येन तत्र वसतां जनानां लाभः भविष्यति। एतत् कार्यम् अतीव सावधानतया क्रियते यथा सेबोद्यानानां तथा क्षेत्रस्य प्राचीनप्राकृतिकसौन्दर्यस्य किञ्चिदपि हानिः न भवेत्। अपि च पुंछ तथा राजौरीनगरयोः संयोजनाय एकः परियोजना प्रवर्तते यस्य विस्तृतपरियोजनाप्रतिवेदनम् अधुना सज्जीक्रियते।

कश्मीररेलवेप्रभागस्य वरिष्ठपुलिसअधिकारी वसीम कादरी उक्तवान् यत् डिब्बानां संख्या अष्टतः विंशतिपर्यन्तं वर्धिता अस्ति यत्र द्वे कार्यकारीआसनकोचे अष्टादश वातानुकूलितआसनकोचाश्च सन्ति। तेन उक्तं यत् पूर्वस्थितसुरक्षाव्यवस्था अपि अधिकं सुदृढा कृता। जम्मूपर्यन्तं समग्रे मार्गे सीसीटीवीनिरीक्षणम् अस्ति त्रिसहस्रसुरक्षाकैमरा यन्त्राणि स्थापितानि ड्रोननिरीक्षणम् अपि प्रचलति तथा समग्रे मार्गे प्रति द्विकिलोमीटरमध्ये निगराणीस्तम्भेषु सुरक्षारक्षकाः नियुक्ताः स्थानकेषु अपि सुरक्षा बलं विन्यस्तम् अस्ति।।

---------------

हिन्दुस्थान समाचार