Enter your Email Address to subscribe to our newsletters

-श्रम मंत्री श्रमवीरेभ्यः अददाद्अंताराष्ट्रिय श्रमिक दिवसस्य शुभकामनाः
रायपुरम् 30 अप्रैलमासः (हि.स.)।
अन्ताराष्ट्रिय-श्रमिक-दिवस-अवसरे (मई-दिवसः) प्रदेशस्य श्रम-मन्त्री लखनलाल-देवाङ्गनः राज्यस्य श्रमिकेभ्यः हार्दिक-बधाईः शुभाशयाः च प्रदत्तवान्। सः सर्वेषां परिश्रमिणां श्रमिकाणां सुखमयं उज्ज्वलं च भविष्यं कामयन् अवदत् यत् १ मई-दिनः श्रमिकाणां परिश्रम-समर्पण-योगदानानां प्रति कृतज्ञतां प्रकटयितुं विशेषः अवसरः अस्ति।
मन्त्री देवाङ्गनः उक्तवान् यत् श्रमिकाः समाजस्य आधारशिला भवन्ति, तेषां विना विकासस्य कल्पना अपूर्णा भवति। सः श्रमिकाणां सामाजिक-आर्थिक-समृद्ध्यर्थं राज्य-सर्वकारस्य प्रतिबद्धतां पुनरपि उद्घोषयन् अवदत् यत् छत्तीसगढ-सरकारः श्रमिकान् सहितं सर्वेषां आवश्यक-वर्गाणां समग्र-विकासाय निरन्तरं प्रयत्नशीलः अस्ति।
सः अपि अवदत् यत् राज्य-सरकारेण श्रमिकेभ्यः तेषां परिवारजनानां च विविध-योजनानां लाभः शीघ्रतया उपलभ्यते। श्रम-विभागस्य अधीनं सञ्चालितेषु त्रिषु मण्डलेषु— भवन-तथा-अन्य-सन्निर्माण-कर्मकार-मण्डलम्, सङ्गठित-कर्मकार-मण्डलम्, राज्य-सामाजिक-सुरक्षा-तथा-श्रम-कल्याण-मण्डलम्— माध्यमेन योजनानां प्रभावी-क्रियान्वयनं क्रियते।
मन्त्री देवाङ्गनः अवदत् यत् गत-सवा-द्विवर्षेषु विविध-योजनानां अन्तर्गतं प्रायः ८००-कोटि-रूप्यक-परिमिता राशि डीबीटी-प्रणाल्या प्रत्यक्षतया श्रमिकाणां बैंक-खातेषु स्थानान्तरिता अस्ति। अनेन न केवलं श्रमिकाणां, अपि तु तेषां परिवाराणां सामाजिक-आर्थिक-स्तरे अपि उन्नतिः अभवत्।
हिन्दुस्थान समाचार