मुख्यमंत्री बुद्ध पूर्णिमायां प्रदेशवासिभ्यो हार्दिकाः वर्धापनानि शुभकामनाश्च दत्ताः
लखनऊ, 30 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथो बुद्ध-पूर्णिमा-पावन-अवसरे प्रदेश-निवासिभ्यः हार्दिक-अभिनन्दनानि शुभाशयांश्च प्रेषितवान्। स्व-शुभाशय-सन्देशे मुख्यमन्त्री गुरुवासरे उक्तवान् यत् गौतमबुद्धभगवतः जीवनम् तस्य च उ
मुख्यमंत्री योगी


लखनऊ, 30 अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथो बुद्ध-पूर्णिमा-पावन-अवसरे प्रदेश-निवासिभ्यः हार्दिक-अभिनन्दनानि शुभाशयांश्च प्रेषितवान्।

स्व-शुभाशय-सन्देशे मुख्यमन्त्री गुरुवासरे उक्तवान् यत् गौतमबुद्धभगवतः जीवनम् तस्य च उपदेशाः सम्पूर्ण-मानवजातेः मार्गदर्शकाः सन्ति। येन अहिंसा-करुणा-मैत्री-इत्यादीनां मूल्यानां प्रतिपादनं कृतम्, ते मूल्याः अद्यापि तावत् एव प्रासङ्गिकाः सन्ति तथा विश्वं शान्तेः सद्भावस्य च दिशं प्रदर्शयन्ति।

मुख्यमन्त्री उक्तवान् यत् अद्य विश्वं नानाविधानां परिस्थितीनां समक्षीकरणं करोति, तादृशे काले बुद्ध-भगवतः विचाराः मानवजातिं संतुलनं, सहिष्णुतां तथा परस्पर-सम्मानस्य शिक्षां ददति। तस्य जीवनम् अस्मान् प्रेरयति यत् सत्यं, आत्मसंयमः, अनुशासनम्, नैतिक-मूल्यानि च अंगीकृत्य एव मनुष्यः स्वजीवनं सार्थकं कर्तुं शक्नोति तथा समाजे सकारात्मक-परिवर्तनं आनयितुं समर्थः भवति।

तस्य उपदेशाः अस्मान् लोभ-मोह-क्रोधेभ्यः दूरं स्थित्वा विवेकपूर्णं संतुलितं च जीवनं यापयितुं प्रेरयन्ति। मुख्यमन्त्री प्रदेश-निवासिनः आह्वयति यत् अस्मिन् पावन-अवसरे वयं सर्वे बुद्ध-भगवतः आदर्शान् स्वजीवने आत्मसात् कर्तुं संकल्पं कुर्याम तथा शान्तिपूर्ण-समरस-सद्भावपूर्ण-समाज-निर्माणे सक्रिय-भागितां निर्वहेम।

हिन्दुस्थान समाचार